________________
-१-३७
आह्निकम् ]
प्रमाणप्रकरणम्
क्वचित् सदृशविज्ञानं कामशोकादयः क्वचित् । क्वचित् कुदर्शनाभ्यासश्चक्षुषस्तिमिरं चित् ॥ क्वचिन्निद्रा क्वचिच्चिन्ता धातूनां विकृतिः क्वचित् । अलक्ष्यमाणे तद्धतावदृष्टं स्मृतिकारणम् ॥ बालस्येन्दुद्वयज्ञानमस्ति नास्तीति वेत्ति कः। अस्तित्वेऽपि स्मृतौ हेतुमदृष्टं तस्य मन्वते ॥ नूनं नियमसिद्ध्यर्थं जनकस्यावशासनम् । न चैकान्तासतो दृष्टा ज्ञानोत्पादनयोग्यता ॥
क्वचित् सदृशविज्ञानमिति । यथा मरीचिषु जलज्ञाने । कामशोकादयः पुरोऽवस्थितस्त्र्यादिदर्शने।
कुदर्शनाभ्यासो बौद्धादिदर्शनाभ्यास आत्मादौ नास्तिताज्ञाने। चक्षुषस्तिमिरं द्विचन्द्रादिज्ञाने। निद्रा स्वप्नज्ञाने । चिन्ता यमर्थं चिन्तयति तत् प्रत्यक्षतया पुरोऽवस्थितमिव गृह्णाति । धातूनां पित्तादीनां विकृतिः शर्करादेस्तिक्ततादिज्ञाने । ननु जाततैमिरिकस्येहजन्मनि घटादिगतस्य द्वित्वस्याऽननुभवात् स्मरणाभावाद् द्विचन्द्रादिज्ञानानुत्पाद इत्याशक्याह-अलक्ष्यमाणे तद्धताविति । इदमेबोत्तरश्लोकेन 'बाल-15 स्येन्दुद्रयज्ञानमस्ति नास्ति' इत्यादिना व्यनक्ति। यद्यपीहजन्मनि नानुभवस्तथापि जन्मान्तरानुभूतस्य अदृष्टवशादनुस्मरणमिति तात्पर्यम्। अलक्ष्यमाणे वा स्वशिरश्छेदादावनुभवाभावाददृष्टस्य कारणता। ननु जाततैमिरिकस्यापि तिमिरमेव मिथ्याज्ञाने हेतुः। सत्यम्, तत्तु तिमिरं द्वित्वस्मरणद्वारेण जनकम, तस्य रमरणं चानुभूते भवति, न च जातमात्रस्येहजन्मन्यनुभवोऽरित । अथ तिमिरमेव जन्मान्तरानुभूतस्मरणहेतु: 20 कस्मान्न कल्यते। न, दृष्टस्य हेतोर्जन्मान्तरानुभूतस्मरणसामर्थ्यकल्पनायामननुभूत-... रजतस्यापीहजन्मनि शुक्तिकायां सादृश्यजनितजन्मान्तरानुभूतरजतस्मरणे सति रजतज्ञानं स्यात्, न च दृश्यते। अतोऽदृष्टमेव जन्मान्तरानुभूतस्मरणजनकत्वेन कारणं कल्प्यम्, यत्र कार्यञ्च दृश्यते न च तदनुगुणकारणं तत्र सर्वत्रादृष्टस्यैव कारणत्वात्, अग्नेरूर्ध्वज्वलनादौ। नन्विदमत्र कारणमिदं चात्रेत्यत्र किं प्रमाणम् ? तदाह-नूनं नियम- 25 सिद्धयर्थमिति। यदि हि अजनकं प्रतिभासेत तदजनकत्वाविशेषाद् यत्किञ्चित् प्रतिभासेत; शुक्तिकायां घटोऽपि प्रतिभासेत, रजतवत् तस्याप्यजनकत्वादिति ।
१८