________________
१३८
5
न्यायमञ्जय
न च सन्निहितं वस्तु तत्रास्ति वनितादिकम् । स्मृत्युपारूढमवभातीति मन्वते ॥
तेनेदं
तत्राद्येन पदेनैताः स्वान्तःकरणसम्भवाः । निरस्ता भ्रान्तयोऽक्षादिसंसर्ग रहितोदयाः ॥ याः पुनः पीतशङ्खादिमरुनीरादिबुद्धयः । अक्षजास्तद्व्युदासाय सूत्रे पदमिदं कृतम् ॥
व्यवसायपदसार्थक्यम्
दूरात् स्थाणुपुरुषसाधारणं धर्ममारोहपरिणाहरूपमुपलभमानस्य तयोरन्यतरत्र वर्त्तमानान् वक्रकोटरादीन् करचरणान् वा विशेषानपश्यतः समानधर्मप्रबुद्ध● संस्कारतया चोभयवर्तिनोऽपि विशेषाननुस्मरतः पुरोऽवस्थितार्थविषयं स्थाणुर्वा पुरुषो वेति संशयज्ञानमुपजायते तद् इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणयुक्तमपि न प्रत्यक्षफलम् । अतस्तद्वयवच्छेदाय व्यवसायात्मकग्रहणम् ।
20
[ द्वितीयम्
संशयमानत्वादिमते शङ्का तत्समाधानश्च
ननु मानसत्वात् संशयज्ञानस्य इन्द्रियार्थसन्निकर्षोत्पन्नग्रहणेन निरासः 15 सिद्धयत्येवेति कि पदान्तरेण ? तथा च भाष्यकारः स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहसुखादिप्रत्यक्षमिच्छादयश्च मनसो लिङ्गानीति वक्ष्यति ।
25
मैवम्, स्थाण्वादिसंशयस्य बाह्येन्द्रियान्वयव्यतिरेकानुविधायित्वात् । कश्चिद्धि मानसः संशयः समस्त्येव यथा आदेशिकस्य ज्योतिर्गणकादेरेकदा अन्यदा चासम्यगा-दिश्य तृतीये पदे पुनरादिशतः संशयो भवति 'किमयमस्मदादेशः संवदेदुत विसंवदेदिति भाष्यकृतश्चेतसि केवलमनःकरण इति स्थितिः । यस्तु विस्फारिताक्षस्य स्थाणुर्वा पुरुषो वेत्यादिः संपद्यते संशयस्तम्, अनिन्द्रियार्थसन्निकर्षजं को नामाचक्षीत ।
स्मृत्यनुमानागमेति । स्मृत्यादीनां बाह्यकरणव्यापारोपरमेऽयुपलम्भात्, अकरणस्य चात्मनस्तज्जन्मनि बाह्यविषयज्ञान इव सामर्थ्यादर्शनात् करणं कल्यम्, तच्च मन इति ।