________________
१३६
आह्निकम् ]
प्रमाणप्रकरणम् संशयविपर्यययोरपाकरणार्थमव्यभिचारिपदमितिविचारः
नन्वतस्मिंस्तदिति ज्ञानं व्यभिचारि व्याख्यातम् । एकरूपञ्च पुरोऽवस्थितमर्थमनेकरूपतया स्पृशति संशयः स्थाणुर्वा पुरुषो वेति सोऽयमस्मिस्तथाभावाद्विपर्यय एवेति पूर्वपदव्युदस्तत्वान्न पदान्तरव्यवच्छेद्यतामहतीति । नेतदेवम्, स्वरूपभेदात् कारणभेदाच्च। एवमेव विरुद्धमाकारमुल्लिखन विपर्ययो जायते स्थाणौ पुरुष इति पुंसि वा स्थाणुरिति, अनियताकारद्वयोल्लेखी तु संशयो भवति स्थाणुर्वा स्यात्पुरुषो वेति । सोऽयं स्वरूपभेदः प्रत्यात्मसंवेद्यः। कारणभेदात्तु विरुद्धविशेषस्मरणप्रभवो विपर्ययः, शुक्तिकायां सन्निहितायां रजतविशेषानुस्मरणान्मरीचिषु सलिलगतविशेषाननुस्मरतो विपर्ययो भवति । . उभयविशेषस्मरणजन्मा तु संशय इति पदान्तरनिरसनीय एवायम।
10
तत्रैव प्रवरपक्षीयाशङ्का तत् समाधानश्च
ननु संशयविपर्यययोरपि निर्विकल्पयोरसम्भवादव्यपदेश्यपदेनैव प्रवरपक्षे प्रतिक्षेपः सिद्धचेत्, पुरोऽवस्थितस्थाण्वादिमिदर्शनमात्रमेव निर्विकल्पकमिन्द्रियव्यापारजम्, अनन्तरन्तूभयान्यतरविशेषस्मरणजन्मनोरुल्लिखितशब्दयोरेव संशयविपर्यययोरुत्पादः, तत्र विशेषस्मृत्यैव शब्दानुवेधस्याक्षेपात्, अतः पदद्वयमपि 15 तद्वयुदासाय न कर्त्तव्यम् । अत्र तदेव तावद्वक्तव्यम् प्रवरपक्षः प्रतिक्षिप्त एव यतः शब्दानुवेधजातमस्ति प्रत्यक्षमुपपादितम् । संशयविपर्यययोरपि अव्यपदेश्यत्वमेव
___ ननु भवतु प्रवरपक्षः प्रतिक्षिप्तः सदृशदर्शननिष्ठिते तु नयनव्यापारे विशेषस्मृतेरूर्ध्वमुपजायमानौ संशयविपर्ययौ नेन्द्रियजाविति प्रथमपदेनैव निरस्तौ । भवतः । तदसत् स्मृतेरूर्खमपीन्द्रियव्यापारानुवृत्तेरित्युक्तत्वात्, एतच्चान्वय. व्यतिरेकाभ्यामवगम्यते निमीलितचक्षुषस्तदनुत्पादात्, न च तदानीमन्तःसङ्कल्परूपेणापि शब्दोल्लेखः, उत्पन्ने तु संशये विपर्यये च वाचकस्मरणं भविष्यतीति सम्यग्ज्ञानवत् संशयविपर्ययावपि शब्दोल्लेखशून्यौ संवेद्यते, विशेषस्मृतिस्तु विशेषविषयत्वात् तानेवाक्षिपतु शब्दस्य किं वर्तते वाचकशब्दस्मृतिस्तु शब्दमुपस्थापयति, सा च न तावदुपपन्नेति ।
1220