________________
१४०
न्यायमञ्जयां
[द्वितीयम् सम्यक्प्रत्ययवत्तस्माद्वाचकोल्लेखजितौ।
अक्षव्यापारजन्मानौ स्तः संशयविपर्ययौ ॥ ईदृशयोः कथमनयोराद्यपदव्युदसनीयता, तस्मात् तदपाकृतये युक्तं पदद्वयस्याप्युपादानम्, एवं लक्षणपदानि व्याख्यातानि । 5 प्रत्यक्षपदस्य यौगिकत्वादिविचारः
लक्ष्यपदन्तु प्रत्यक्षमिति ज्ञानविशेष रूढ्यैव प्रवर्तते, योगस्य व्यभिचारात्। प्रतिगतमक्षं प्रत्यक्षमित्यक्षरार्थः, स चायं सुखादावपि सम्भवतीति रूढिरेव साधीयसी । अथवा ज्ञानपदस्य सूत्रे निर्देशाद् योगपक्षोऽप्यस्तु न चासौ दृश्यमानो निह्नोतुं
युक्तः। योगरूढिस्तु न सम्मतव विदुषाम् । यत्रापि हि द्वयं दृश्यते तत्रापि 10 शब्दप्रवृत्तौ प्रयोजकमेव भवति, कथं पुनरक्षं प्रतिगतं ज्ञानमिष्यते, न संयोगित्वेन
अञ्जनादेः प्रत्यक्षप्रसङ्गात्, न समवायित्वेन अक्षतिनां रूपादीनां तथात्वप्रसङ्गात्, न जनकत्वेन अक्षारम्भकाणां परमाणनामपि तथाभावप्रसक्तः, तस्माज्जन्यत्वेनैव ज्ञानमक्षं प्रतिगतमिति व्याख्येयम् । अव्ययीभावव्याख्यानन्तु न युक्तं प्रत्यक्षः पुरुषः प्रत्यक्षा स्त्रीत्यादिव्यवहारदर्शनादित्यलं प्रसङ्गेन।
तेनेन्द्रियार्थजत्वादिविशेषणगणान्वितम् । यतो भवति विज्ञानं तत्प्रत्यक्षमिति स्थितम् ॥
योगरूढिस्तु न सम्मतैवेति । या पङ्कजादिषु कैश्चिदभ्युपगता तस्या दूषणं स्वयम याह-यत्रापि हि द्वयं दृश्यत इत्यादिना। अव्ययीभावव्याख्यान
मिति । अक्षमक्षं गतं प्रत्यक्षमिति वीप्सायामव्ययीभावः । 'प्रत्यक्षेण प्रत्यक्षादिति 20 दर्शनात्' इति नापपाठः, एतयोरव्ययीभावेऽपि सम्भवात् । 'अपञ्चम्याः' इति पञ्चम्या
अमादेशप्रतिषेधात्, 'तृतीयासप्तम्योर्बहुलम्' इति च तृतीयासप्तम्धोर्बहुलवचनात् । अतः 'प्रत्यक्षस्य प्रत्यक्षयोः' इत्यादि पठनीयम् । ननु च प्रतिगतमक्षं प्रत्यक्षम् ‘अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति तत्पुरुषाश्रयणात् परवल्लिङ्गतायां प्रत्यक्षो बोध इत्यादि न
स्यात् । उच्यते, 'द्विगुप्राप्तापन्नालंगतिसमासेषु' परवल्लिङ्गतानिषेधादभिधेयलिङ्गतैव 25 भवति, प्राप्तो जीविकां प्राप्तजीविक इतिवत् ।