________________
आह्निकम् ] प्रमाणप्रकरणम्
१४७ इति विगतकलङ्कमस्य धीमानकुरुत लक्षणमेतदक्षपादः।
न तु पररचितानि लक्षणानि क्षणमपि सूक्ष्मदृशां विशन्ति चेतः॥ धर्मकीर्तिसंस्कृतदिङ्नागीयप्रत्यक्षलक्षणम्
यत्तावत् कल्पनापोढमभ्रान्तमिति लक्षणम् । प्रत्यक्षस्य जगौ भिक्षुस्तदत्यन्तमसाम्प्रतम् ॥ शब्दसंसर्गयोग्यार्थप्रतीतिः किल कल्पना।
अस्याश्च केन दोषेण प्रामाण्यं न विषह्यते ॥ नन्वभिलापसंसर्गयोग्यप्रतिभासत्वादपि हि कम् अन्यं दोषं मृगयते भवान, असदर्थविषयत्यागे तत्त्वमुक्तं भवति शब्दार्थस्य वास्तवस्याभावात्, स्वलक्षणस्य सजातीयेतरव्यावृत्तात्मनः सम्बन्धाधिगमसव्यपेक्षप्रवृत्तिना शब्देन विषयीकर्तु- 10 मशक्यत्वात्, तद्व्यतिरिक्तस्य वस्तुनोऽनुपलम्भात् । न चेन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायिनी कल्पनाबुद्धिः, तमन्तरेणापि भावात्, तस्मिन् सत्यपि च पूर्वानुभूतवाचकशब्दयोजनं विनानुत्पादात् । यदि चेन्द्रियार्थसन्निकर्षस्तज्जनको भवेत् प्रथममेव तथाविधां धियं जनयेन, न च जनयति, तदयं शब्दस्मृतेरूर्ध्वमपि न जनक इति मन्यामहे । तदुक्तम्,
यः प्रागजनको बुद्धरुपयोगाविशेषतः। ..........
स पश्चादपि तेन स्यादर्थाभावेऽपि नेत्रधीः ॥ इति । ..... अभिलापसंसर्गेति । अभिलप्यतेऽनेन ह्यभिलापः शब्दस्तेन संसर्गः सम्बन्धस्तद्योग्यः सामान्याकारः प्रतिभासतेऽस्यामित्यभिलापसंसर्गयोग्यप्रतिभासा। बालो हि यदा स्तन पूर्वोपलब्धस्तनैक्येन न गृह्णाति न तदा रोदनादिपरिहारेण तत्र मुखमर्पयति, अत:, 20 शब्दसंसर्गाभावेऽपि तद्योग्यत्वात् प्रतिभास्यस्य तद्ग्राहिज्ञानस्य कल्पनात्वसिद्धये योग्य- " ग्रहणम् । तमन्तरेणापि भावात्, आभोगादाविति शेषः; आभोगादौ हि इन्द्रियसम्बन्धं विनापि नानार्थकल्पना जायन्ते।
यः प्रागजनक इति । योऽर्थः प्रथमेन्द्रियसन्निकर्षकाले सविकल्पकस्य न जनकः सं पश्चादप्यजनक एव । तस्य हि तज्जन्मन्युपयोगो योग्यदेशावस्थितत्वम्, स च प्रागप्य- 25 स्ति; प्राक् चेदजनकः स पश्चादप्यजनक एव । अतोऽर्थाभावेऽपि नेत्रधीः । नेत्रधीरूपतया ६ भवदभिमता सविकल्पिका बुद्धिर्भवेदिति ।