________________
न्यायमञ्जयां
[द्वितीयम् अपि च सत्यपीन्द्रियार्थसंसर्गे स्मृत्यपेक्षया सोऽर्थस्तयैव व्यवहितः स्यात्, आह च
अर्थोपयोगेऽपि पुनः स्मर्याच्छब्दानुयोजनम् ।
अक्षधीयद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ इति । सङ्केतस्मरणसहकारिसव्यपेक्षमक्षमीदृशीं बुद्धिमुपजनयतीति चेद्, न, व्यति. रिक्ताव्यतिरिक्तोपकारादिविकल्पः सहकारिणो निरस्तत्वात्, किञ्च दण्डीत्यादिविकल्पविज्ञानं नेन्द्रियापातवेलायामेव जायते किन्तु बहुप्रक्रियापेक्षम्, यदाह ।
विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम् ।
गृहीत्वा सकलञ्चतत्तथा प्रत्येति नान्यथेति ॥ 10. न चेयती प्रक्रियां प्रथमनयनोपनिपातजातमविकल्पकं ज्ञानमुबोढुं क्षममित्याह
सङ्कतस्मरणोपायं दृष्टसङ्कल्पनात्मकम् ।
पूर्वापरपरामर्शशून्यं तच्चाक्षुषं कथम् ॥ तत्रतत्स्यात्, द्विविधा विकल्पाः छात्रमनोरथविरचिताः इदन्ताग्राहिणश्न * नीलमित्यादयः। तत्र पूर्वे मा भूवन प्रमाणं कस्तेष्वर्थनिरपेक्षजन्मसु प्रामाण्ये
ऽभिनिवेशः? इदन्ताग्राहिणां त्वविनाभूतत्वात् कथं न प्रामाण्यमिति उच्यते, सर्व एवामी विकल्पाः परमार्थतोऽर्थ न स्पृशन्त्येव स हि निर्विकल्पकेनवासर्वात्मना परिच्छिन्नः । तदुक्तम्
अर्थोपयोगेऽपीति । अर्थस्योपयोगेऽपि योपदेशावस्थितत्वेऽपि यदि स्मर्यमाणशब्दसंपर्कमपेक्षेत तज्ज्ञानम्, तदा सोऽर्थो व्यवहितो भवेत् । स्मरणजन्मन्येव तस्य व्यापृतत्वात् तज्जन्मनि पुनरव्यापारणं व्यवधानम् ।
लौकिकी स्थितिमिति। हस्तस्थदण्डे दण्डी न पादाद्याक्रान्तेऽपीति सङ्कल्प्य संयोज्यकत्र तथा प्रत्येति दण्डीति उच्यते ।
ननु तथाविधे दण्डीत्यादौ कल्पनाज्ञाने यदुपलब्ध रूपम् कीदृक् तदुपलब्धमित्याह सङ्केतस्मरणोपायमिति । दृष्टसङ्कलनात्मकं पूर्वदृष्टस्य दृश्यमानेन सह संयोजनात्मकम्।