________________
आह्निकम् ]
प्रमाणप्रकरणम्
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो न दृष्टो भागः स्याद् य प्रमाणैः परीक्ष्यते ॥ इति । यत्तु केषाञ्चिद्विकल्पानामिदन्ताग्राहित्वस्पष्टत्वादिरूपं तदर्थाविनाभाविनिर्विकल्पकदर्शनपृष्ठभावित्वावाप्ततच्छायासंसर्गजनितं न तु तेषामर्थस्पर्शः कश्चिदस्ति अर्थात्मनो निर्विकल्पेनैव मुद्रितत्वात् ।
तस्मादतात्त्विकाकारसमुल्लेखपुरःसराः।
न यथावस्तु जायन्ते कदाचिदपि कल्पनाः ॥ तन्मते कल्पनापञ्चकं सोदाहरणम्
पञ्च चैताः कल्पना भवन्ति, जातिकल्पना गुणकल्पना क्रियाकल्पना नामकल्पना द्रव्यकल्पना चेति । ताश्च क्वचिदभेदेऽपि भेदकल्पनात् क्वचिच्च भेदे- 10 ऽप्यभेदकल्पनात् कल्पना उच्यन्ते ।
जातिजातिमतोआंदो न कश्चित् परमार्थतः ।
भेदारोपणरूपा च जायते जातिकल्पना ॥ इदमस्य गोर्गोत्वमिति न हि कश्चिद्भेदं पश्यति तेनाभेदे भेदकल्पनैव ।
एतया सदृशन्यायान्मन्तव्या गुणकल्पना ।
तत्राप्यभिन्नयोर्भेदः कल्प्यते गुणतद्वतोः॥ तथा चाहः, एष गुणी रूपादिभ्योऽर्थान्तरत्वेन नात्मानं नो दर्शयति तेभ्यश्च व्यतिरेकं वाञ्छसीति चित्रम् ।
एकस्यार्थस्वभावस्येति । एकस्य निर्भागस्य। प्रमाणरिति । सविकल्पकः प्रत्यक्षर्भवदभिमतैरनुमानश्च । यदि हि प्रत्यक्षेणैवानित्यत्वादिसकलविशेषच्छुरितः शब्दो 20 गृहीतस्तत् 'अनित्यः शब्दः कृतकत्वात्' इत्यनुमानेन किं कार्यमित्यर्थः ।
जातिजातिमतोआंदो न कश्चिदिति । न व्यक्तेर्व्यतिरिक्ता जातिरुपलभ्यते, तदुक्तम्- 'अयं गौः' इति हि लौकिकाः प्रतिपद्यन्ते, न 'इदं गोत्ववद् द्रव्यम्' इति
भेवेन।
आत्मानं नो दर्शयति, एषोऽहमस्माद् व्यतिरिक्त इति ।
25