SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ C 25 040 15 20 25 ** न्यायमञ्जय्य भेदापrata गुणवत्कर्मकल्पना । तत्स्वरूपातिरिक्ता हि न क्रिया नाम काचन । गच्छति देवदत्त इति देवदत्तस्यैवान्यूनानतिरिक्तस्य प्रतिभासात् । विभिन्नयोस्त्वभेदेन प्रवृत्ता नामकल्पना । चैत्रोऽयमित्यभेदेन निश्चयो नामनामिनोः ॥ चैत्र इत्ययं शब्दः, अयमित्यर्थः कीदृशमनयोः सामानाधिकरण्यम् ? एवं दण्ड्ययमित्यादिर्मन्तव्या द्रव्यकल्पना । सामानाधिकरण्येन भेदिनोर्ग्रहणात्तयोः ॥ [ द्वितीयम् • कल्पनाज्ञानस्याप्रमाणत्वा विपर्ययत्वावाधितत्वञ्च ननु यद्यभेदे भेदं भेदे चाभेदमारोपयन्त्यः कल्पनाः प्रवर्त्तन्ते तत्कथमासु बाधकः प्रत्ययो न जायते शुक्तिकारजतबुद्धिवद् ? उच्यते, यत्र वस्तु वस्त्वन्तरात्मना - saभासते तत्र बाधको भवति मरीचिष्विव जलबुद्धौ, इह तु न जात्यादिवस्त्वन्तरमस्ति यतो वस्त्वन्तरात्मनास्य ग्रहो भवेत् । व्यक्तिविषया एवैते सामानाधिकरण्यवैयधिकरण्य विकल्पाः तस्माद्वस्त्वन्तरानवभासिष्वेषु न बाधकः प्रत्ययो जायते, तस्मान्न विपर्ययात्मानो विकल्पाः, न चैते प्रमाणम्, एतदुल्लिख्यमानस्य जात्यादेरपारमार्थिकत्वात्, अत एव प्रमाणविपर्ययाभ्यामयमन्य एव विकल्प इत्याचक्षते इत्यलं विस्तरेण । एवमेताः प्रवर्त्तन्ते वासनामात्रनिर्मिताः । कल्पितालीकभेदादिप्रपञ्चाः पश्व कल्पनाः ॥ एव पश्यता तासां प्रामाण्यामोदमन्दताम् । भिक्षुणा लक्षणग्रन्थे तदपोढपदं कृतम् ॥ तन्मतखण्ड ने कल्पनाया अप्रामाण्यत्व निरासः अत्र प्रतिविधीयते, तदिदं संकीर्णप्रायमतिबहुविलपता भवता न नियतं किमपि विकल्पनानामप्रामाण्यकरणमिति स्पष्टमावेदितं तदुच्यताम्, किं शब्दा ननु ज्ञानानां निर्विषयत्वाभावाद् भिन्नसामान्याभावे कथं सामान्याकारज्ञानादय इत्याशङ्क्याह-- व्यक्तिविषया एवैत इति ।
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy