________________
आह्निकम् ]
प्रमाण प्रकरणम्
र्थावभासित्वगर्भीकृतमसदर्थवाचित्वं तदप्रामाण्यकारणमभिमतमुत सङ्केत मृत्यपेक्षोपनतमनिन्द्रियार्थसन्निकर्षजत्वमुत विशेषणग्रहणाद्यपेक्षावाप्तं बहुप्रयाससाध्यत्वमुत पूर्वापरपरामर्शशून्यचाक्षुषवैलक्षण्यवाचोयुक्तिसमर्पितं विचारकत्वम् उत निर्विकल्पक परिच्छिन्नवस्तुग्राहितानिबन्धनमधिगताधिगन्तृत्वम् उत भेदाभेदसमारोपभणितमतस्मिंस्तदिति ग्राहित्वम् उत वृत्तिविकल्पादिबाधितसामान्य - 5 ग्रहणसूचितं बाध्यत्वमेवेति । तत्र तावन्न शब्दसंसर्गयोग्यार्थग्रहणद्वारकमसदर्थग्राहित्वमेषामप्रामाण्य कारणमभिधातुं युक्तम्, शब्दार्थस्य वास्तवस्य समर्थयिष्यमाणत्वात् । कः पुनरसाविति चेद्, य एव निर्विकल्पके प्रतिभासते । किं निर्विकल्प के सामान्यादिकमवभासते ? बाढमभासत इति वक्ष्यामः । अत एव बाध्यत्वमपि न प्रामाण्यापहारकारणमेषां वक्तव्यम्, वृत्तिविकल्पादेर्बाधस्य परिहरिष्यमाणत्वात् । कान्तरस्य च नेदमिति प्रत्ययस्य शुक्तिकारजतज्ञानादिवद् भवतैवानभ्युपगमात् । नाप्यनिन्द्रियार्थसन्निकर्षजन्यत्वं वक्तव्यम्, सहकार्यपेक्षायामपि तद्व्यापाराविरतेः ।
10
सङ्केतग्रहणकालानुभूतशब्दस्मरणापेक्षणादस्य
यः प्रागजनको बुद्धेः स लब्ध्वा सहकारिणम् । कालान्तरेण तां बुद्धिं विदधत् केन वार्यते ॥
१४५
यच्चेदमुच्यते सोऽर्थो व्यवहितो भवेदिति, तन्न विद्मः कीदृशं व्यवधानमर्थ - स्येति । न हि दीपेन वा मनसा वा विज्ञानहेतुना कदाचिदर्थो व्यवधीयते, मनोवच्च
न तेनैकश्वोद्यो भवति । नासौ दोष एकस्य वाच्यः । इन्द्रियालोकमनस्कारेति । मनस्कारः समनन्तरप्रत्ययः ।
१९
T
व्यतिरिक्ताव्यतिरिक्तोपकारकरणादिविकल्पास्तु क्षणभङ्गभङ्ग निराकरि
ध्यन्ते । रूपग्रहणे च चक्षुषः प्रदीपादेरपेक्षायां दुष्परिहारास्ते विकल्पाः । न वै किश्विदेकं जनकमिति भवन्तोऽपि पठन्ति, भवत्पक्षेऽपि तुल्यास्ते । यद्युभयोर्दोषो न तेनैकश्चोद्यो भवति । तस्मादुपयोगाविशेषादिन्द्रियालोकमनस्कारविषयवद् वाचकस्मरणमपि सामग्रयन्तर्गत एतत्प्रत्ययजन्मनि व्याप्रियत इति न वाचकस्मरण- 20 जनितत्वेन स्मार्त्तत्वादप्रमाणं विकल्पः, रूपस्मृत्याख्य समनन्तरप्रत्ययनिर्मितस्य निर्विकल्पस्य रसज्ञानस्यापि तथात्वप्रसङ्गात् ।
15
25