________________
१४६ न्यायमञ्जा
[द्वितीयम् वाचकस्मृतिरपि सामग्रयन्तर्गता सती तत्प्रतीतो व्याप्रियत इति कथमर्थ व्यवदधीत। स्मृतिविषयीकृतः शब्दस्तमर्थं व्यवधत्त इति चेन्न, शब्दस्य तत्प्रकाशकत्वेन ज्ञानवद् दीपवद्वा व्यवधायकत्वाभावात्।न चेन्द्रियव्यापारतिरोधानं व्यवधानम्, तस्याधुनाप्यनुवर्तमानत्वात् ।
यथा तद्भावभावित्वादाद्यविज्ञानमक्षजम् ।
तथा तद्भावभावित्वादुत्तरं ज्ञानमक्षजम् ॥ न हि वाचकस्मरणानन्तरमक्षिणी निमील्य विकल्पयति पटोऽयमिति ।
अथ यावद् वाचकविज्ञानं हृदयपथमवतरति तावत् सोऽर्थः क्षणिकत्वादतिक्रान्त इति व्यवहित उच्यते, तदपि दुराशामात्रम्, क्षणभङ्गस्योपरिष्टान्निराकरि10 ष्यमाणत्वात्।
अपि च प्रदर्शितप्राप्त्यादिव्यवहारवत् सन्तानद्वारकमिहापि तद्ग्रहणं भविष्यतीति सर्वथा न व्यवधानम् । तदेवं समयस्मरणसापेक्षत्वेऽपि नेन्द्रियार्थसन्निकर्षोत्पन्नतामतिवर्तते सविकल्पकं विज्ञानमिति कथमप्रत्यक्षम् ? यत्पुनविशेषणविशेष्य
ग्रहणादिसामग्र्यपेक्षत्वेन बहुप्रयाससाध्यत्वमप्रामाण्यकारणमभिधीयते तदतीव 15 सुभाषितम् । न हि बहुक्लेशसाध्यत्वं नाम प्रामाण्यमुपहन्ति । उक्तञ्च न हि गिरि
शृङ्गमारुह्य यद् गृह्यते तदप्रत्यक्षमिति, रसादिज्ञानापेक्षया च रूपज्ञानस्य दीपाद्यालोकाहरणप्रयाससाध्यत्वादप्रामाण्यं स्यात् ।
यदपि पूर्वापरपरामर्शरहितचाक्षुषविज्ञानवैपरीत्येन विकल्पज्ञानानां विचारकत्वादप्रामाण्यमुच्यते तदपि न सम्यक्, सर्वत्र ज्ञानस्य विचारकत्वानुपपत्तेः। 20 विचारको हि माता स हि पश्यति स्मरत्यनुसन्धत्ते विचारयतीच्छति द्वेष्टि यतते
गृह्णाति जहाति सुखमनुभवतीति वक्ष्यामः । अर्थञ्च स्पृशतो विज्ञानस्य विचारयतो ऽपि कथमप्रामाण्यं स्यात् ?
अथास्य निर्विकल्पकेनैव सर्वात्मना स्पृष्टत्वात् पिष्टपेषणमयुक्तम्, इति सविकल्पमपि अधिगतार्थग्राहित्वादप्रमाणमिति मन्यसे, तदपि न साधु, पूर्वमेव परि25 हृतत्वात् । न ह्यनधिगताधिगन्तृत्वं प्रामाण्यमित्युक्तम्, गृहीतग्रहणेऽपि प्रमाणस्य
प्रमाणत्वानतिवृत्तः।