________________
१४७
आह्निकम् ]
प्रमाणप्रकरणम् सामान्यतः कल्पनाया बाधितत्वनिरासः
यत्त्वभ्यधायि भिन्नष्वभेदमभिन्नेषु च भेदं कल्पयन्त्यः कल्पना अतस्मिंस्तद्ग्रहे प्रामाण्यमवजहतीति तद्युक्तम् । अस्मिस्तद्ग्रहो भवत्यप्रमाणत्वकारणम् । तत्विह नास्ति । तस्य हि बाधकप्रत्ययोपसन्निपातान्निश्चयः । न च भवदुपवर्णितासु पञ्चस्वपि जात्यादिकल्पनासु बाधकं किञ्चिदस्तीति नातस्मिंस्तद्ग्राहिण्यः 5 कल्पना भवन्ति ।
जातिर्जातिमतो भिन्ना गुणी गुणगणात् पृथक् ।
तथैव तत्प्रतीतेश्च कल्पनोक्तिरबाधिका ॥ एतच्चोपरिष्टान्निर्णेष्यते। द्रव्यनाम्नोस्तु भिन्नयो देनैव प्रतीति भेदकल्पना। न हि देवदत्तशब्दोऽयमित्येवं तद्वाच्यावगतिरेषा । न शब्दोऽस्यामर्थारूढो 10 ऽवभासते। न शब्दविवर्तरूपेणार्थः परिस्फुरति । किं तहि ?
शब्दस्मृत्याख्यसामग्र्यसामर्थ्यातिशयोद्भवः।
प्रत्ययातिशयः सोऽयमित्येवं प्राक प्रसाधितम् ॥ दण्ड्ययमिति द्रव्याभेदकल्पना तु मन्दमतिभिरेवोदाहृता । न हि दण्डोऽयमिति देवदत्ते प्रतीतिः, अपि तु दण्डीति । तत्र च प्रकृतिप्रत्ययौ पृथगेवोपलभ्येते 15 दण्डोऽस्यास्तीति दण्डी, तदिह यथैव वस्तु तथैव तदवसाय इति नाभेदारोपः। कर्मणि तद्वयमपि नास्ति नाभिन्ने भेदकल्पनं न च भिन्नेऽप्यभेदकल्पना।
क्रियाहि तत्त्वतो भिन्ना भेदेनैव च गृह्यते। चलतीत्यादिबोधेषु तत्स्वरूपावभासनात् ॥ तेन क्रियागुणद्रव्यनामजात्युपरञ्जितम् । विषयं दर्शयन्नेति विकल्पो नाप्रमाणताम् ॥ विपर्ययात् समुत्तीर्ण इति साधु सहामहे। प्रमाणात्तु बहिर्भूतं विकल्पं न क्षमामहे ॥
- न शब्दोऽस्यामारूढोऽवभासते इत्यध्यासपक्षः। स्वरूपादप्रच्युतस्यासत्याकारोपग्रहो विवर्तः । स्वप्न इत्यविज्ञातस्य स्वापाकारापरित्यागेनासत्यगजाश्वा- 15 कारोपग्रहः।