________________
न्यायमञ्जयां
[द्वितीयम्
क्वचिद् बाधकयोगेन यदि तस्याप्रमाणता। निर्विकल्पेऽपि तुल्योऽसौ द्विचन्द्राद्यवभासिनि ॥ मनोराज्यविकल्पानां काममस्त्वप्रमाणता।
यथावस्तुप्रवृत्तानां न त्वसावक्षजन्मनाम् ॥ 5 निर्विकल्पकपृष्ठभावित्वेऽपि सविकल्पकस्य प्रामाण्यम्
न च निर्विकल्पकपृष्ठभावित्वकृतमेषामेतद्रूपम, विषयसंस्पर्शमन्तरेण स्वतः स्वच्छरूपाणां ज्ञानानामेवमाकारत्वानुपपत्तेः, किं निर्विकल्पक पृष्ठभाविता करिष्यति ? तदनन्तरभाविना हि स्मृतिरपि क्वचिद् दृश्यत एव, न च सा तच्छा
यावतीति दुराशामात्रमेतत् । 10 ननु निर्विकल्पकेनैव वस्तुसर्वस्वं गृहीतमेकस्यार्थस्वभावस्येति वणितम्,
प्रतिविहितमेतद्, गृहीतग्रहणेऽपि प्रामाण्यानपायात् । निर्विकल्पकस्य ग्राह्य विषये मतान्तराणि किञ्च किं निर्विकल्पकेन गृह्यते इत्येतदेव न जानीमः ।
भवन्तो निर्विकल्पस्य विषयं सम्प्रचक्षते। सजातीयविजातीयपरावृत्तं स्वलक्षणम् ॥ महासामान्यमन्ये तु सत्तां तद्विषयं विदुः। वाग्रूपमपरे तत्त्वं प्रमेयं तस्य मन्वते ॥
महासामान्यमन्ये त्विति । ब्रह्मविदां हि सद्रूपतायाः सर्वत्राव्यभिचारात् सैव पारमार्थिकी प्रत्यक्षग्राह्या न भेदाः, तेषामपारमार्थिकत्वात्, यथा घटादौ मृद्रूपतैव सत्यं 20 न विकाराः, तेषामादावन्ते चासत्त्वेनासद्भिस्तुल्यत्वात् । तथा च श्रुतिः 'वाचारम्भणं
नामधेयं विकारो मृत्तिकेत्येव सत्यम्' इति । मृदूपतापि यदापगच्छति तदा सन्मात्रमनुल्लिखितविशेषमवतिष्ठत इति तदेव सन्मानं सत्यम् । न च भेदः प्रत्यक्षस्य विषयः, तस्येतरेतराभावरूपत्वेन प्रत्यक्षाविषयत्वात्, तदुत्तरकालभाविनान्तु विशेषग्राहिणां
विकल्पानामप्रामाण्यात् । वाक्तत्त्वमपर इति । यथा हि ब्रह्मविदां सर्वत्र सद्रूपताया 25 अव्यभिचारेणं परमार्थसत्त्वान्निर्विकल्पकग्राह्यत्वमभिमतं तथैव शाब्दैरपि सर्वत्र प्रत्यये
शब्दरूपताया अनुगमात् तस्या एवासत्याकारोपग्रहरूपविवर्तरूपत्वात् रूपादीनां परमार्था