________________
आह्निकम् ]
प्रमाण प्रकरणम्
केचिद् गुणक्रियाद्रव्यजातिभेदादिरूषितम् । शबलं वस्तु मन्यन्ते निर्विकल्पक गोचरम् ॥ प्रत्यक्षविषयेऽप्येताश्वित्रं विप्रतिपत्तयः ।
निश्चिनुमः ।
परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥ प्रत्यक्ष हि समुत्पन्ना विमतिः केन शाम्यति । इदं भाति न भातीति संविद्विप्रतिपत्तिषु ॥
परप्रत्यायने
पुंसां शरणं शपथोक्तयः ।
स्वमते निर्विकल्प ग्राह्यप्रमेयविषये शङ्का तत्समाधानञ्च
न तु शपथशरणा एव निरुद्यममास्महे | मार्गान्तरेणापि तत्प्रमेयं
निर्विकल्पानुसारेण
सविकल्पकसम्भवात् ।
ग्राह्यं तदानुगुण्येन निर्विकल्पस्य मच्महे ॥
तत्र न तावत् सकलसजातीयविजातीयव्यावृत्तं स्वलक्षणं प्रत्यक्षस्य विषयः । गृहीते निर्विकल्पेन व्यावृत्ते हि स्वलक्षणे । अकस्मादेव सामान्यविकल्पोल्लसनं कथम् ॥
निर्विकल्पानुसारेण हि विकल्पाः प्रादुर्भवितुमर्हन्ति । अपि च विजातीयपरावृत्तिविषया यदि कल्पना ।
व्यावृत्तिरूपं सामान्यं गृहीतं हन्त दर्शनैः ॥
सत्त्वाद् वाक्तत्त्वं शब्दतत्त्वं स्व प्रत्यक्षविषयत्वेनोत्ता । तथाहि भेदानां तद्विवर्ततया तरसत्त्वं प्रतिपादितम् । यदाहुः
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्वित्राभिः प्रतिपद्यते ॥ तथेदममलं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रतीयते ॥ विजातीय परावृत्तिविषया यदि कल्पनेति । अयं भावः सजातीयविजातीय
(૪
5
10
15
20
25