________________
१५०
10
15
न्यायमञ्जय
व्यावृत्तान्ननु नैवान्या व्यावृत्तिः परमार्थतः । व्यावृत्तग्रहणेनैव सुतरां तद्ग्रहो भवेत् ॥ सामान्यग्रहणेऽप्येवं तद्व्यापारविकल्पनात् । स्वलक्षणपरिच्छेदनिष्ठं तन्नावतिष्ठते ॥
नापि सत्ताद्वैतवादिसम्मतसत्ताख्यो निर्विकल्पस्य विषयो युक्तः । सत्ताग्रहणपक्षेऽपि विशेषावगतिः कुतः । सा भाति भेदस्पृष्टा चेत् सिद्धमद्वैतदर्शनम् ॥ न च भेदं विना सत्ता ग्रहीतुमपि शक्यते । नाविद्यामात्रमेवेदमिति च स्थापयिष्यते ॥ वाक्तत्त्वप्रतिभा सोऽपि प्रतिक्षिप्तोऽनया दिशा । कथच चाक्षुषे ज्ञाने वाक्तत्त्वमवभासते ॥ अगृहीते तु सम्बन्ध गृहीते वापि विस्मृते । अप्रबुद्धेऽपि संस्कारे वाचकावगतिः कुतः ॥ चित्रतापि पृथग्भूतैर्धर्मैस्तत्समवायिभिः । जात्यादिभिर्यदीष्येत धर्मिणः काममस्तु सा ॥ तदात्मता तु नैकस्य नित्यं तत्त्वानुपग्रहात् । अंश निष्कर्षपक्षे तु धर्मभेदो बलात् भवेत् ॥ यस्य यत्र यदोद्भूतिर्जिघृक्षा चेति कथ्यते । तदात्मकत्वं धर्माणामुच्यते चेत्य संगतम् ॥
[ द्वितीयम्
20 व्यावृत्तिरूपं हि स्वलक्षणम्, तन्नागृहीतायां सजातीयविजातीयावृत्ती प्रत्यक्षेण गृहीतं भवति । गृहीतञ्चेद् विजातीयव्यावृत्तिरपि सामान्यरूपतया भवदभिमता गृहीतैवेति कथं स्वलक्षणैकविषयं निर्विकल्पकम् ?
शबलं वस्तु निर्विकल्पक ग्राह्यं ये मन्यन्ते तान् प्रत्याह चित्रतापि पृथग्भूतैरिति । नित्यं तत्त्वानुपग्रहात् । 'गोर्गोत्वम्' इत्याद्यपि दर्शनात् । अथ तादात्म्येऽपि 25 धर्मधर्मिणोर्बुद्धया निष्कृष्य पृथक्कृत्य अंशा धर्मा व्यपदिश्यन्ते 'गोर्गोत्वम्' इत्यादौ तदाह अंशनिष्कर्षपक्षे त्विति । न ह्यसति भेदे निष्कर्षः कर्तुं शक्येतेत्यभिप्रायः । अथ मन्येत केनांशनिष्कर्षपक्षोऽभ्युपगत इति तदाह यस्य यत्र यदोद्भूतिरिति ।