________________
आह्निकम् ]
प्रमाण प्रकरणम्
देशभेदस्तु धर्माणामस्माभिरपि नेष्यते । धर्मी हि तेषामाधारो न पुनः स तदात्मकः ॥ तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः । स एव निर्विकल्पस्य शब्दोल्लेखविवर्जितः ॥ किमात्मकोऽसाविति चेद् यद्यदा प्रतिभासते । वस्तुप्रमितयश्चैव प्रष्टव्या न तु वादिनः ॥
क्वचिज्जातिः क्वचिद् द्रव्यं क्वचित् कर्म क्वचिद् गुणः । सविकल्पेन तदेवानेन गृह्यते ॥
यदेव
इदं शब्दानुसन्धानमात्रमभ्यधिकं परम् । विषये न तु भेदोऽस्ति सविकल्पाविकल्पयोः ॥ अतः शब्दानुसन्धानबन्ध्यं तदनुबन्धि वा । जात्यादिविषयग्राहि सर्व प्रत्यक्षमिष्यते ॥
दिङ्नागधर्मकीत्र्योः प्रत्यक्षलक्षणखण्डनम्
तस्माद् यत् कल्पनापोढपदं प्रत्यक्षलक्षणे । भिक्षुणा पठितं तस्य व्यवच्छेद्यं न विद्यते ॥ अभ्रान्तपदस्यापि व्यावर्त्यं न किञ्चन तन्मतेन पश्यामः ।
यस्य यत्र यदोद्भूतिर्जिघृक्षा वोपजायते । चेत्यतेऽनुभवस्तस्य तेन च व्यपदिश्यते ॥
इति भट्टश्लोकः । तत्रोद्भवः प्रमेयधर्मः, जिघृक्षा प्रमातृधर्मः । यदा संजनं गृहमसकृदुपलब्धवतो निर्जनगृहदर्शनं तदा 'नास्त्यत्र कश्चित्' इत्येवंरूपज्ञानजननयोग्यस्याभावांशस्योद्भवः, यदा त्वपूर्वमेव प्रदेशविशेषं पश्यति तदा 'कोऽत्रास्ते' इत्येवंरूपप्रतीतिसमर्थस्य भावांशस्योद्भवः । अयमसौ भावाभावांशयोः प्रमेयधर्मयोरुद्भवः । जिघृक्षा तु यदा निर्जन प्रदेशार्थी तदा अभावांशस्य ग्रहणम् । यदा तु शीताद्यार्तो गृ । मृगयते तदा भावांशस्येति । चेत्यतेऽनुभवस्तस्यैवांशस्य, तत्प्रकटताया एवोद्भवात्; तेनैव चांशेनासौ पदार्थो व्यपदिश्यत इति ।
१५१
10
15
20
5