________________
१५२
न्यायमञ्जयां
[ द्वितीयम् ननु तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमं द्विचन्द्रालातचक्रचलत्पादपादिदर्शनमपोह्यमस्य पररक्तम्, सत्यम् । उक्तमयुक्तम् । कल्पनापोढपदेनैव तद्व्युदाससिद्धेः । तत्रापि निर्विकल्पकं ज्ञानमेकं चन्द्रादिविषयमेव । विकल्पास्तु विपरीताकारग्राहिणो भवन्ति यथा मरीचिग्राहिणि निर्विकल्पके सलिलावसायी विकल्प इति ।
ननु तिमिरेण द्विधाकृतं चक्षुरेकतया न शक्नोति शशिनं ग्रहीतुमिति निर्विकल्पकमपि द्विचन्द्रज्ञानम् । यद्येवं तरङ्गादिसादृश्यरूषितमूषरे मरीचिचक्र चक्षुषा परिच्छेत्तुमशक्यमिति तत्रापि निर्विकल्पकमुदकग्राहि विज्ञानं किमिति
नेष्यते ? अभ्युपगमे वा सदसत्कल्पनोत्पातादिकृतः प्रमाणेतरव्यवहारो न स्यात् । 10 अपि च न बाधकोपनिपातमन्तरेण भ्रान्ततावकल्पने ज्ञानानाञ्च क्षणिकवादिमते बाध्यबाधकभावो बुद्धीनामुपपद्यत इत्यलं विमर्दैन।
इति सुनिपुणबुद्धिलक्षणं वक्तुकामः पदयुगलमपीदं निर्ममे नानवद्यम् । भवतु मतिमहिम्नश्चेष्टितं दृष्टमेतज्जगदभिभवधीरं धीमतो धर्मकोर्तेः ॥ श्रोत्रादिवृत्तिरपररविकल्पिकेति प्रत्यक्षलक्षणमणि तदप्यपास्तम्। साम्यान्न यस्य न च सिद्धयति बुद्धिवृत्त्या दृष्टत्वमात्मन इति प्रतिपादितं प्राक् ॥
20
तिमिराशुभ्रमणेति। संक्षोभो वातादिसम्बन्धी ज्वलत्स्तम्भादिदर्शनहेतुः । तिमिराशुभ्रमणनौयानसंक्षोभैराहितो विभ्रमो यत्र ।
भवतु मतिमहिम्न इति । भवतु आस्तां तावत् । यदेतम् न्यायमार्गतुलारूढं जगदेकत्र यन्मतिः। जयेत् तस्य क्व गम्भीरा वाचोऽहं जडधीः क्व च ।।
इत्यादि स्तुतिवाक्यैरर्चटादिरचितर्जगदभिभवधीरं चेष्टितं धर्मकीर्तेः सम्बन्धिनो मतिमहिम्नः कथ्यते तदेतद् दृष्टमिति योजना, न किञ्चिदेतदिति तात्पर्यम् । साम्यान्न यस्येति । तैरप्यविकल्पिकेत्यभिहितत्वात् ।
25