________________
आह्निकम् ]
जैमिनीयसूत्रस्य सत्सम्प्रयोग इत्यादेः प्रत्यक्षलक्षणत्वखण्डनम्
'सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वादित्येतत्सूत्रं जैमिनीयैः साक्षात् प्रत्यक्षलक्षणपरत्वेन न व्याख्यातम्, "चोदनालक्षणोऽर्थो धर्मः" इति प्रकृतप्रतिज्ञासङ्गत्यभावात्, अपि तु धर्मं प्रति प्रत्यक्षमनिमित्तम्, एवंलक्षणकत्वादित्यनुवादत्वं लक्षणस्यापि सम्भवेदिति । तदेतल्लक्षणवर्णने सूत्रयोजनम समीचीनम्, अतिव्याप्तिदोषानतिवृत्तेः । तथा हीन्द्रियाणां सत्सम्प्रयोगे सति पुरुषस्य जायमाना बुद्धि: प्रत्यक्षमितिसूत्रार्थः, तथा चातिव्याप्तिः संशयविपर्ययबुद्धयोरपि इन्द्रियसंप्रयोगजत्वेन प्रत्यक्षत्वप्रसङ्गात् ।
5
प्रमाण प्रकरणम्
अथ सत्सम्प्रयोग इति सतां सम्प्रयोग इति व्याख्यायते तथाऽपि निरालम्बनं विभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशय विपर्ययौ ।
अथ सति सम्प्रयोग इति सत्सप्तमीपक्ष एव न त्यज्यते संशयविपर्ययच्छेदी च सम्प्रयोग इत्युपसर्गो वर्ण्यते यथोक्तम्
'चोदनालक्षणोऽर्थो धर्मः' इति प्रकृतप्रतिज्ञासङ्गत्यभावादिति । चोदनैव धर्मे प्रमाणं न प्रत्यक्षादि, यतस्तदेवंलक्षणकं प्रसिद्धमित्येवंलक्षणानुवादेन प्रकृतसङ्गतिर्भवेन्न लक्षणविधानेन 'एवंरूपं यत् तत् प्रत्यक्षं बोद्धव्यम्' इति । एवं सत्यनुवादत्वं लक्षणस्यापि सम्भवेत्'; एवंसति 'सम्यगर्थे हि संशब्दो दुष्प्रयोगनिवारणः' इत्यादिप्रकारप्रतिपादने ।
निरालम्बनविभ्रमाः स्वप्नादिज्ञानानि ।
अथ सति संप्रयोग इति 'सति' सप्तमीपक्ष एवेति । संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्मेति क्रियमाणे संप्रयोग इति किं सप्तम्यधिकरणे, उभयस्य च भावेन भावलक्षण इति सन्देहः स्यात् । अधिकरणसप्तमीपक्षे हि संप्रयोगविषयं यद् ज्ञानं तत् प्रत्यक्षं स्यान्न संप्रयुज्यमानघटादिविषयमिति, तन्निवृत्त्यर्थः सच्छन्दोपादानम् । सति संप्रयोगे सम्प्रयोगे सतीत्यर्थः । तथा चाह
सप्तम्यैव हि लभ्येत सदर्थः कल्पना पुनः ।
परेषां वारणीयेति यत्नो जैमिनिना कृतः । इति ।
२०
१५३
10
15
20
25