________________
१५४
न्यायमञ्जयां
[द्वितीयम
सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः।
दुष्टत्वाच्छुक्तिकायोगो वार्यतां रजतेक्षणात् ।। इति ॥ ___ तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात् कार्यतोऽवगतिवक्तव्या, कार्यं च ज्ञानं न च तद्विशेषितमेव प्रयोगस्य सम्यक्तामवगमयति । न च 5 तद्विशेषणपरमिह पदमप्यक्षरमपि मात्रामात्रमपि वा सूत्रे पश्यामः । सतां प्रयोग
इति च परं निरालम्बनविज्ञाननिवृत्तये वर्णितम्, सतीति तु सप्तम्यैव गतार्थत्वादनर्थम् । लोकत एव कार्यविशेषावगमात् प्रयोगसम्यक्त्वमवगमिष्याम इति चेल्लोकत एव प्रत्यक्षस्य सिद्धत्वात् किं तल्लक्षणे सूत्रसामर्थ्ययोजनाक्लेशेन ।
यदप्यत्रभवान् वृत्तिकारः प्राह यद् व्यभिचारि न तत्प्रत्यक्षम्, यत्प्रत्यक्षं 10 यद्विषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षमित्येवं तत्सतोर्व्यत्ययेन लक्षणमन
पवादमवकल्पत इति तदपि वृथाटाटयामात्रम्, संशयज्ञानेन व्यभिचारानतिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत् प्रत्यक्षं तदन्यविषयं ज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षमस्त्येव ।
ननूभयविषयं ज्ञानं न चोभाभ्यां सम्प्रयुक्तमिन्द्रियम्, मैवम् न हि धव15 खदिरवत् द्वावपि संशयसंविदि प्रतिभासेते, किन्तु स्थाणुर्वा पुरुषो वेत्यनिर्धारितै
कतरपदार्थतत्त्वावमर्शी संशयो जायते, नूनं च तयोरन्यतरेणेन्द्रियं सम्प्रयुक्तमेवेति उभयावशित्वाच्च संशयस्य येन सम्प्रयुक्तं चक्षुस्तद्विषयमपि तज्ज्ञानं भवत्येवेति नातिव्याप्तिः परिहृता भवति ।
अथ ब्रूयुः किमनेन परिक्लेशेन, न लक्षणवर्णनमस्माकमभिमतम्, अनुवाद20 पक्षनिक्षिप्तत्वात । अपि तु लोकप्रसिद्धप्रत्यक्षानुवादेन धर्म प्रति अनिमित्तत्वमेव
विधीयते। न धर्म प्रति प्रमाणं प्रत्यक्षं विद्यमानोपलम्भनत्वात्, विद्यमानार्थग्राहि
शुक्तिकायोगो दुष्टत्वात् 'स' शब्देन वार्यते। कथं तस्य दुष्टत्वमिति चेत् तदाह रजतेक्षणादिति।
यदप्यत्रभवानिति । अत्रभवान् पूज्यो वृत्तिकार उपवर्षः, तत्कृतसत्त25 च्छब्दव्यत्ययपक्षे सच्छब्दः शोभनपर्यायः 'सत्प्रत्यक्षं शोभनं प्रत्यक्षम्' इत्यर्थः ।