________________
प्रमाणप्रकरणम्
१५५
आह्निकम् ] त्वादित्यर्थः। धर्मश्च त्रिकालानवच्छिन्नः, तस्य यजेत दद्यात् जुहुयाद् इत्यादिशब्देभ्यः प्रतीतेः । तहि सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमिति किमर्थो ग्रन्थ इति चेन्न, विद्यमानोपलम्भनत्वमसिद्धमिति परो ब्रूयात् स वक्तव्यः विद्यमानोपलम्भनं प्रत्यक्षं सत्सम्प्रयोगजत्वादिति । प्रत्यक्षग्रहणमपि हेतुनिर्देशार्थमेव, सत्सम्प्रयोगस्यासिद्धतां ब्रुवन्ननेन प्रत्याख्यायते, सत्सम्प्रयोगजं प्रत्यक्षं प्रत्यक्ष- 5 त्वादिति । तदुक्तम्, “प्रत्यक्षत्वमदो हेतुः शेषहेतुप्रसिद्धये" इति। स्वातन्त्र्येणापि प्रत्यक्षत्वं धर्मग्राहकत्वनिषेधाय वक्तव्यम् । न धर्मग्राहि प्रत्यक्ष प्रत्यक्षत्वादस्मदादिप्रत्यक्षवदित्येवमन्यत्रैव सूत्रतात्पर्यान्नातिव्याप्त्यादिदोषावसर इहेति । लौकिकालौकिकप्रत्यक्षयोधर्माग्राहित्वसाधने दोषः
तदेतदपि न प्रामाणिकमनोनुकूलम् । कतरस्य प्रत्यक्षस्य धर्म प्रत्यनिमित्तत्त्वं 10 प्रतिपाद्यते ? किमस्मदादिप्रत्यक्षस्य योगिप्रत्यक्षस्य वा। तत्रास्मदादिप्रत्यक्षस्य तथात्वे सर्वेषामविवाद एवेति किं तत्रेयता श्रमेण ? योगिप्रत्यक्षस्य तु भवतामसिद्धत्वात् कस्य धर्म प्रत्यनिमित्तत्वप्रतिपादनम् ?
एवञ्च धर्मिणोऽभावादाश्रयासिद्धतां स्पृशेत् ।
विद्यमानोपलम्भत्वप्रत्यक्षत्वादिसाधनम् ॥ परप्रसिद्धया तसिद्धिरिति चेत् केयं प्रसिद्धिर्नाम ? प्रमाणमूला तद्विपरीता वा। आये पक्षे प्रमाणस्यापक्षपातित्वात् परस्येव तवापि तसिद्धिर्भवतु, अप्रमाणमूलत्वे तु न कस्यचिदप्यसौ प्रसिद्धिः।
योगिज्ञानं परेषां यत् सिद्धं तदनुभाषणे। प्रतिज्ञापदयोरेव व्याघातस्ते प्रसज्यते ॥
20
धर्मश्च त्रिकालाऽनवच्छिन्न इति । यजेतेत्यादौ हि विधिर्भावनायाः कार्यत्वमवगमयति, तेन च कार्यात्मना रूपेण सैव भावना धर्मः, तच्चास्याः कालत्रयासंस्पृष्टं रूपम् । अयजत यजते यक्ष्यत इति धर्मे कालत्रयासंस्पर्शेन तत्प्रतीतेः । न च खपुष्पादिवत् कालत्रयासंस्पर्शाद् असत्त्वमाशङ्क्यम्, यतो न खपुष्पादीनां कालत्रयासंस्पर्शकृतमसत्त्वम्, अपि तुउपलम्भकप्रमाणाभावनिबन्धनम् । प्रत्यक्षत्वमदो हेतुः शेषहेतुप्रसिद्धये 25 इति । अस्य परमर्द्धम् अस्मदादौ प्रसिद्धत्वाद् योग्यर्थमभिधीयते' इति ।