________________
१५६
न्यायमञ्जयां
[द्वितीयम्
परहि धर्मग्राहि योगिज्ञानमभ्युपगतम्, अतस्तदनुभाषणे धर्मग्राहकं न धर्मग्राहकमिति उक्तं स्यात् ।
परसंसिद्धमूलञ्च नानुमानं प्रकल्पते। उक्तं भवद्भिरेवेदं निरालम्बनदूषणम् । साध्यसिद्धिर्यथा नास्ति परसिद्धन हेतुना।
तथैव धर्मिसिद्धत्वं परसिद्ध्या न युज्यते ॥ तत्रतत् स्यात् प्रसङ्गसाधनमिदं प्रसङ्गश्च नाम परप्रसिद्धन परस्यानिष्टापादनमुच्यते, परस्य च विद्यमानोपलम्भनं सत्सम्प्रयोगजन्यं च प्रत्यक्षं प्रसिद्धम्, अतस्तेनैव धर्मेण हेतुना धर्मानिमित्तत्त्वं तस्योपपद्यत इति को दोषः ? नैतदेवम्
प्रसङ्गसाधनं नाम नास्त्येव परमार्थतः।
तद्धि कुडयं विना तत्र चित्रकर्मव लक्ष्यते । न हि नभःकुसुमस्य सौरभासौरभविचारो युक्तः, अथापि कि न एतेन भवत्विदं प्रसङ्गसाधनम् ।
तदत्रापि न तु व्याप्तिप्रतीतिरिह मादृशाम् ।
न धर्मग्राहि सर्वेषां प्रत्यक्षमिति वेत्ति कः ॥ मत्प्रत्यक्षमक्षमं धर्मग्रहणे इति भवान्न जानीते, त्वत्प्रत्यक्षमपि न धर्मग्राहोति नाहं जाने, अन्यस्य प्रत्यक्षमीदृशमेवेत्युभावप्यावां न जानीवहे।
त्वया तु यदि सर्वेषां प्रत्यक्षं ज्ञातमीदृशम् । तहि त्वमेव योगीति योगिनो द्वेक्षि किं वृथा ॥ प्रामाणिकस्थिति तस्मादित्थं श्रोत्रिय बुध्यसे।
परोक्तेऽतीन्द्रिये ह्यर्थे मा वादीर्दूषणं पुनः॥ प्रमाणसिद्धे हतशक्तिदूषणं प्रमाणशून्येऽपि वृथा तदुक्तयः । निरस्य चोद्यव्यसनन्तु मृग्यतामतीन्द्रिये वस्तुनि साधनं पुनः॥
स चेत् पर्यनुयुक्तः सन् वक्तुं शक्नोति साधनम्।
ओमिति प्रतिपत्तव्यं नो चेन्नास्त्येव तस्य तत् ॥ मीमांसकानभिमतयोगिप्रत्यक्षसाधनम्
___ आह शिक्षिताः स्मः, प्रामाणिकवृत्तं न दूषणं बूमो भवन्तमेवानुयुज्महे तदेहि कथ्यतां धर्माधिगमनिपुणयोगिप्रत्यक्षसिद्धौ किं प्रमाणमिति । इदमुच्यते,