________________
आह्निकम् ]
प्रमाणप्रकरणम्
१५७
दर्शनातिशय एव प्रमाणम् । तथा ह्यस्मदादिरपेक्षितालोकोऽवलोकयति निकटस्थितमर्थवृन्दम्, उन्दुरवैरिणस्तु सान्द्रतमतमःपङ्कपटलविलिप्तदेशपतितमपि संपश्यन्ति, संपातिनामा च गृध्रराजो योजनशतव्यवहितामपि दशरथनन्दनसुन्दरीं ददर्शेति रामायणे श्रूयते, सोऽयं दर्शनातिशयः शुक्लादिगुणातिशय इव तारतम्यसमन्वित इति गमयति परमपि निरतिशयमतिशयम् । अतश्च यत्रास्य परः । प्रकर्षस्ते योगिनो गीयन्ते । दर्शनस्य च परोऽतिशयः सूक्ष्मव्यवहितविप्रकृष्टभूतभविष्यदादिविषयत्वम् ।
ननु स्वविषयानतिक्रमेण भवतु तदतिशयकल्पना, धर्मस्तु चक्षुषो न विषय एव । यदुक्तम्
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् ।
दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ॥ अपि च ___ येऽपि चातिशया दृष्टाः प्रज्ञामेधाबलेनूणाम्।
स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनादिति ॥ एतदयुक्तम् । यतो यद्यपि नास्मदादिनयनविषयो धर्मस्तथापि योगीन्द्रिय- 15 गम्यो भविष्यति।तथाहि योजनशतव्यवहितमन्धकारान्तरितं वा नास्मदादिलोचनगोचरतामुपयाति सम्पातिवृषदंशदृशोस्तु विषयो भवत्येव ।
नन्वेवमविषये प्रवृत्तं योगिनां चक्षुर्गन्धरसादीनपि गृह्णीयात् ? यथोक्तम्
उन्दुरवैरिणो मार्जाराः । रामायणे श्रूयते इति । रामायणोक्त्या प्रामाणिकत्वमस्यार्थस्य दर्शयति, तस्य च प्रमाणत्वं प्रमाणभूते भारते तदर्थसंकीर्तनात् । शिष्टैश्च 20 शिष्टस्मृतित्वेन परिग्रहादिति । तारतम्यसमन्वित इति । तथाहि ये तारतम्यसमन्वितास्ते परातिशययोगिनो दृष्टा, यथाणुत्वमहत्त्वादयः परिमाणविशेषाः परमाणुत्वपरममहत्त्वलक्षणे परस्मिन्नतिशये प्रकर्षे विश्रान्ताः।
यत्राप्यतिशय इति । सोऽतिशयः स्वार्थानतिलङ्घनात् । स्वार्थं स्वविषयमनतिलध्य दूरगं सूक्ष्म वा स्वार्थं गृह्णातु, न पुना रूपे ग्रहणं श्रोत्रव्यापारादित्यर्थः ।
वृषदंशो मार्जारः । सम्पातिः गृध्रराजः ।