________________
१५८
10
15
20
5
25
न्यायमञ्जय
एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।
नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥ इति ।
[ द्वितीयम्
नैतदेवम् । रसादिग्राहीष्यपि योगिनामिन्द्रियाणि चक्षुर्वदतिशयवन्त्येवेति न रसादिषु चक्षुर्व्यापारः परिकल्प्यते । धर्मेऽपि न तर्हि कल्पनीय इति चेद्, न,
तस्य रसादिवत्तदविषयता शब्दस्याभावात् ।
अपि च योगीन्द्रियाविषयत्वं धर्मस्य कथमवगतवान् भवान् ? अविषयत्वं तद्भावेऽपि तदनवगमादवगम्यते । यथा नयनसद्भावेऽपि शब्दाश्रवणात् तदविषयता शब्दस्यावसीयते । न चैवं योगिचक्षुषि सत्यपि धर्मस्याग्रहणमवगन्तुं शक्नोति भवान् उभयस्यापि भवतः परोक्षत्वादिति, विषयः स तस्य नेति नैव वक्तुं युक्तमिति । ननु कर्त्तव्यतारूपस्त्रिकालस्पर्श वर्जितः । चक्षुर्विषयतामेति धर्म इत्यतिसाहसम् ॥ सत्यं साहसमेतत्ते मम वा चर्मचक्षुषः । त्वेष दुर्गमः पन्था योगिनां सर्वदशिनाम् ॥
यच्च त्रिकालानवच्छिन्नो यजेतेत्यादिलिङादियुक्त शब्दैकशरणावगमो धर्मः कथं ततोऽन्येन प्रमाणेन परिच्छिद्यतामित्युच्यते तदपि प्रक्रियामात्रम् । fefeat त्रिकालस्पर्शास्पर्शाभ्यां कृतम् ? यथा वयं गमनादिक्रियाणां देशान्तर - प्राप्त्यादिप्रयोजनतां जानीमस्तथाग्निहोत्रादिक्रियाणां स्वर्गादिफलतां ज्ञास्यन्ति योगिन इति किमत्र साहसम् ? यदि हि बाह्येन्द्रियेष्वमर्षो न तेष्वतिशयो विषह्यते तदलमनुबन्धेन ।
मनःकरणकं ज्ञानं भावनाभ्याससम्भवम् ।
भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥
मनो हि सर्वविषयम्, न तस्याविषयः कश्चिदस्ति । अभ्यासवशाच्चातीन्द्रियेsarर्थेषु परिस्फुटाः प्रतिभासाः प्रादुर्भवन्तो दृश्यन्ते । यथाहुः कामशोका भयोन्मादचौरस्वप्नाद्युपद्रुताः ।
अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥ इति ।
कामशोकभयोन्मादेति । कामशोकभयैर्यो जनित उन्मादचित्तवैकृत्यम् । स च चौरस्वप्नश्च तदादिभिरुपप्लुताः । यत्र स्वप्ने चौरं दृष्ट्वा सहसैव प्रबुद्धः शस्त्राण्युद्यच्छति