________________
१५९
10
आह्निकम् ]
प्रमाणप्रकरणम् नन्वेतेषां मिथ्याज्ञानत्वान्न योगिविज्ञाने दृष्टान्तत्वं युक्तम् । न स्फुटाभासमात्रतया दृष्टान्तत्वोपपत्तेः । न हि शब्दघटयोरपि सर्वात्मना तुल्यत्वम् । तत्र कामशोकादिभावनाभ्यासभुवां प्रतिभासानां बाधकवैधुर्यादप्रामाण्यं भविष्यति नेतरेषां तदभावात् । स्फुटाभासत्वन्तूभयत्रापि तुल्यम् ।
नन्वभ्यासोऽपि क्रियमाणो नात्यन्तमपूर्वमतिशयमावहति लङ्घनाभ्यासवत्। 5 योऽपि हि प्रतिदिनमनन्यकर्मा लङ्घनमभ्यस्यति सोऽपि कतिपयपदपरिमितमवनितलमभिलङ्घयति, न तु पर्वतमम्बुधिं वेति । उच्यते
लङ्घनं देहधर्मत्वात् कफजाड्यादिसम्भवात् । मा गात् प्रकर्ष, ज्ञाने तु तस्य कः प्रतिबन्धकः॥ लङ्घनादौ तु पूर्वेयुः प्रयत्नसमुपार्जितः । न देहेऽतिशयः कश्चिदन्येधुरवतिष्ठते ॥ तत्र केवलमभ्यासात् प्रक्षये कफमेदसोः । शरीरलाघवं लब्ध्वा लङ्घयन्ति यथोचितम् ॥ इह विज्ञानजन्यस्तु संस्कारो व्यवतिष्ठते । क्रमोपचीयमानोऽसौ परातिशयकारणम् ॥ यथानुवाकग्रहणे संस्थाभ्यासोपकल्पितः । स्थिरः करोति संस्कारः पाठस्मृत्यादिपाटवम् ॥ यथा वा पुटपाकेन शोध्यमानं शनैः शनैः । हेमनिष्प्रतिकाशं तद् याति कल्याणतां पराम ॥ तथैव भावनाभ्यासाद् योगिनामपि मानसम् । ज्ञाने सकलविज्ञेयसाक्षात्कारे क्षमं भवेत् ॥ अस्मदादेश्च रागादिमलावरणधूसरम् । मनो न लभते ज्ञानप्रकर्षपदवी पराम ॥
15
स चौरस्वप्न इति धर्मोत्तरो व्याचष्टे । संस्थाभ्यासोपकल्पित इति । एकस्यैव पदादेदशकृत्व आधुच्चारणमण्यासार्थः, संरथा अध्येतृप्रसिद्धा। निष्प्रतिकाशमिति । निर्गतं 25