________________
१६०
5
10
15
20
25
न्यायमञ्जय्य
प्रत्यूहभावनाभ्यासक्षपिताशेषकल्मषम् । योगिनान्तु मनः शुद्धं कमिवार्थं न पश्यति ॥ यथा च तेषां रागादि प्रमाणमवकल्पते । तथापवर्गचिन्तायां विस्तरेणाभिधास्यते ॥ तदेवं क्षीणदोषाणां ध्यानावहितचेतसाम् । निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ॥
प्रातिभज्ञानस्वरूपादिविचारः
अपि चानागतं ज्ञानमस्मदादेरपि क्वचित् । प्रमाणं प्रातिभं ' श्वो मे भ्रातागन्ते 'ति दृश्यते ॥ नानर्थजं न संदिग्धं न बाधविधुरीकृतम् । न दुष्टकारणचेति प्रमाणमिदमिष्यताम् ॥ क्वचिद् बाधक योगश्चेदस्तु तस्याप्रमाणता यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥ काकतालीयमिति चेन्न प्रमाणप्रदर्शितम् । वस्तु तत् काकतालीयमिति भवितुमर्हति ॥
[ द्वितीयम्
नन्वनर्थजमिदं ज्ञानं भ्रातुः, तज्जनकस्य तदानीमसत्त्वात् । स्यादेतदेवम् यदि तदास्तित्वेन भ्रातरं गृह्णीयात्, किन्तु भाविनमेनं गृह्णाति भावित्वश्व तदस्यास्त्येवेति कथमनर्थजं तज्ज्ञानम् ?
ननु भावितया ग्रहणमघटमानम् । भावित्वं हि नाम सावधिः प्रागभावः । अभावस्य च भावेन भ्रात्रा सह कः सम्वन्धः, वस्त्ववस्तुनोविरोधात् ? तदेतदसम्यक् ।
प्रतिकाशमन्यसादृश्यं यस्मात् तन्निष्प्रतिकाशम् अनन्यसदृशमित्यर्थः । प्रत्यूहभावनाभ्यासेति । रागादीनां मिथ्याज्ञानमूलानां प्रत्यूहो मूलविरोधित्वेन विरुद्धो यस्तत्त्वज्ञानाख्यस्तस्य । प्रमाणमिदमिष्यतामिति । एवम्भूतस्य भवद्भिः प्रमाणतयाभ्युपगमात् । तदुक्तम्
'तत्रा पूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ॥' इति ॥