________________
प्रमाणप्रकरणम्
१६१ तद्देशसम्बन्धस्य तत्र प्रागभागे न भ्रातुर्धर्मिणः, स हि विद्यत एव प्रागभावतः । स च कुतश्चिद्भोजनोत्कण्ठादेः कारणात् स्मरणपदवीमुपारूढः श्वस्तनागमनविशिष्टत्वेन प्रतिभातीति प्रातिभस्य स एव जनक इति । तस्मादनर्थजत्वाभावात् प्रमाणं प्रातिभम् । प्रमाणञ्च सत् प्रत्यक्षमेव, न प्रमाणान्तरम्, शब्द-लिङ्ग-सारूप्य-निमित्तानपेक्षत्वात्।
ननु प्रत्यक्षमपि मा भूदिन्द्रियानपेक्षत्वात् ? मैवम् । मनस एव तत्रेन्द्रियत्वात् । पूर्वोत्पन्नचाक्षुषविज्ञानविशेषणस्य बाह्यस्य वस्तुनो मनो ग्राहकमिति नान्धाधभाव इत्युक्तम् । शब्दाद्युपायान्तरविरतौ च जायमानमनवचं ज्ञानं मानसं प्रत्यक्षं भवति, सुरभि केतकीकुसुमम्, मधुरा शर्करेति ज्ञानवदित्यप्युक्तम , अत एव नानियतनिमित्तकम्, न चार्षज्ञानं प्रत्यक्षातिरिक्तस्यार्षनाम्नः प्रत्ययस्या- 10 भावात्, 'ऋषीणामपि यज् ज्ञानं तदप्यागमपूर्वकम् ' इति हि वदन्ति, आगमग्रहणञ्च निदर्शनार्थम, अनुपायस्य ज्ञानस्य तेषामसत्वात् । न च सिद्धदर्शनं प्रतिभा, अस्मदादेरपि भावात् । तस्मान्न प्रमाणान्तरं प्रातिभम , अपि तु प्रत्यक्षमेव ।
ननु प्रत्यक्षमपि नेदं भवति तद्धि वर्तमानकविषयम , यथोक्तम् 'सम्बद्धं वर्तमानञ्च गृह्यते चक्षुरादिने ति, तथा एषः प्रत्यक्षधर्मश्च वर्तमानार्थतयैवेति। 15 मैवम् । अनागतग्राहिणः प्रत्यक्षस्य प्रदेशान्तरे स्वयमेवोक्तत्वात् । 'रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते' इति भवानेवावोचत्, तस्मात् प्रत्यक्षमनागतग्राहि 'श्वो मे भ्राता आगन्ते'ति सिद्धम् ।
न भ्रातुमिण इति । तत्र देशे भ्रातुरसत्त्वम्, न स्वरूपेणेत्यर्थः ।
अत एव नानियतनिमित्तकमिति । अनियतनिमित्तकत्वानिनिमित्तत्वम्, 20 अतश्चाप्रामाण्यं प्रातिभस्येति तेषामभिप्रायः । ननु च आख्यिस्प ज्ञानविशेषस्य प्रत्यक्षादिविलक्षणस्य धर्मविशेषाद् ऋषीणां कदाचिच्चास्मदादीनामुत्पद्यमानरय प्रतिभात्वमुक्तम्, अतस्तस्याः कथं प्रत्यक्षत्वमित्याह-न चार्षज्ञानमिति । केचित् सिद्धानां योगिज्ञानवद् ज्ञानविशेष उत्पद्यते तत् प्रतिभेत्याहुः, तदपि न, अस्मदादीनामसिद्धानामपि प्रतिभाया दर्शनादित्याह-न च सिद्धदर्शनमिति ।
चिरस्थायीति गृह्यत इति । चिरस्थायित्वं हि भाविकालसत्त्वम्, तत् कथं प्रत्य
-
25