________________
१६२.
5
योगिनः सर्वज्ञा न वेति विचारः
एव अस्मदादीनामिवानागते भ्रातरि योगिनां भविष्यति धर्मे प्रत्यक्षं प्रवर्त्स्यतीति । तस्माद् यत् सर्वज्ञनिषेधाय कथ्यते
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । भवेदिदानीं लोकस्य तथा कालान्तरेऽप्यभूदिति ॥
तदपास्तं भवति । तत्रैतत्स्यात् । सर्वज्ञता योगिनां किमेकेन ज्ञानेन बहुभिर्वा ? न तावदेकेन, न ह्येकस्मिन् ज्ञाने परस्परविरोधिनोऽर्थाः शीतोष्णवदबभासते । नापि बहुभिः, तानि हि क्रमेण वा भवेयुर्युगपद्वा ? न युगपज्ज्ञानानि सम्भवन्ति सूक्ष्मान्तःकरणसापेक्षत्वात् । ऋभभाविभिस्तु ज्ञानैरशेषत्रिभुवनकुहर10 निहित निखिलपदार्थसार्थ साक्षात्करणमेषां मन्वन्तरकोटिभिरपि दुर्घटमिति कथं सर्वज्ञा योगिनः ? उच्यते, युगपदेकयैव बुद्धया सर्वत्र सर्वान् अर्थान् द्रक्ष्यन्ति योगिनः ।
15
न्यायमञ्जय
25
[ द्वितीयम
यत्तु विरुद्धत्वादिति तदप्रयोजकम, विरुद्धानामपि नीलपीतादीनामेकत्र वित्रप्रत्यये भासनात्, एकत्र च मेचकप्रत्यये सन्निहितपदार्थव्यतिरिक्तसकल वस्त्वभावग्रहणस्य पूर्वं दर्शितत्वात् । शीतोष्णयोरपि क्वचिदवसरे भवति युगपदुपलम्भः । तद्यथा प्रत्पति हुतवहविस्फुलिङ्गनिकरानुकारिकिरणे तरुणोष्मणि ग्रीष्मे हिमशकल शिशिरपयसि सरसि निमग्ननाभिदध्नदेहस्य पुंसो युगपदेव सरःसलिलसूर्यातपवर्ती शीतोष्णस्पर्शावनुभवपथमवतरतः ।
20
नन्वेकेन ज्ञानेन सर्वान् अर्थान् भूतभाविनः परोक्षानपि पश्यन्तो यौगिन: कथमखिलत्रैलोक्यवृत्तान्तदर्शिनः सकलजगद्गुरोरीश्वराद् विशिष्येरन् ? अस्ति - विशेष ईश्वरस्य तथाविधं नित्यमेव ज्ञानम्, योगिनान्तु योगभावनाभ्यासप्रभव
मिति ।
ननु नादृष्टपूर्वेऽर्थे क्वचिद् भवति भावना ।
आगमात् परिच्छिन्ने धर्मे भावनयापि किम् ॥
चोदनैव धर्मे प्रमाणमिति सावधारणप्रतिज्ञार्थः प्रथममागमादवगतधर्मस्वरूपेषु सत्स्वपि योगिषु न विप्लवत एवेति । उच्यते । योगिष्वस्त्येवायं प्रकारः । पश्चादपि प्रवर्त्तमाने धर्मग्राहिणि प्रत्यक्ष चोदनैवेत्यवधारणं शिथिलीभवत्येव ।