________________
आह्निकम् ]
प्रमाणप्रकरणम् अपि चेश्वरज्ञानं सांसिद्धिकमेव धर्मविषयं वेदस्य कारणभूतं वक्ष्यामः । तस्मिन्नपि सति न चोदनैवेत्यवधारणार्थसिद्धिः । तस्मान्न धर्मग्राहक योगिप्रत्यक्षं विद्यमानोपलम्भनत्वात सत्सम्प्रयोगजत्वादित्यादिसाधनमप्रयोजकम।
प्रमाणान्तरविज्ञातप्रमेयप्रतिपादकः । धर्मोपदेशकः शब्दः शब्दत्वाद् घटशब्दवत् ॥ प्रत्यक्षः कस्यचिद् धर्मः प्रमेयत्वाद् घटादिवत् । इत्यादयश्च सुलभाः सन्त्येव प्रतिहेतवः॥ तेन निष्प्रतिघयुक्तिसाधितां योगबुद्धिमखिलार्थदर्शिनीम् ।
कि विडम्बयितुमुच्यते मुधा दुष्टहेतुनिकुरुम्बशम्बरम् ॥ तदित्थमपि जैमिनीयं सूत्रमसङ्गतार्थम्, लक्षणपरत्वन्त्वस्य निरस्तमेव। 10
यदपि कैश्चित् प्रत्यक्षलक्षणमुक्तम्, आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यदुत्पद्यते ज्ञानं तदन्यदनुमानादिभ्यः प्रत्यक्षमिति, तदपि यद्वयसन्निकर्षजन्मनां सुखालादिज्ञानानामव्यापकमतिव्यापकञ्च व्यभिचार्यादिबोधानामित्युपेक्षणीयम् । सांख्यकारिकोक्तप्रत्यक्षलक्षणखण्डनम्
ईश्वरकृष्णस्तु 'प्रतिविषयाध्यवसायो दृष्टमिति प्रत्यक्षलक्षणमवोचत् । तदपि 15 न मनोज्ञम्, अनुमानादिज्ञानानामपि विषयाध्यवसायस्वभावत्वेनातिव्याप्तेः । यत्तु राजा व्याख्यातवान् 'प्रतिराभिमुख्ये वर्तते, तेनाभिमुख्येन विषयाध्यवसायः प्रत्यक्षमिति तदप्यनुमानादावस्त्येव, घटोऽयमितिवदग्निमान् पर्वत इत्याभिमुख्येनैव प्रतीतेः। स्पष्टता तु सर्वसंविदां स्वविषये विद्यत एव । अथ मन्यसे सामान्यविहितस्य
क्षेण गृह्यतेति भावः । निष्प्रतिघयुक्तिरिति । निष्प्रतिघा युक्तिनिर्बाधमनुमानम्। 20 "आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यद् उत्पद्यते ज्ञानं तदन्यद् अनुमानादिभ्यः प्रत्यक्षम्" इति वैशेषिकोक्तं प्रत्यक्षलक्षणम् । तत्र आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति यः सन्निकर्षरतस्मात् । इन्द्रियगतिज्ञानमानुमानिकं यत् तथा 'अयं पनसः' इति वोभयजं ज्ञानं प्रत्य प्रसज्यत इति तद्व्यवच्छेदाय 'अन्यदनुमानादिभ्यः' इति विशेषणम्।
25 राजा व्याख्यातवानिति । राजा राजवातिक कारः । सामान्यविहितस्येति