________________
१६४ न्यायमञ्जयां
[ द्वितीयम् विशेषेण बाधादनुमानादिव्यावृत्तिः सेत्स्यति, सामान्येनाध्यवसाय उत्सृष्टः स लिङ्गशब्दाभ्यां विशेषित इति तदितरोऽध्यवसायः प्रत्यक्षमिति स्थास्यति । यद्येवं प्रत्यक्षलक्षणमिदानीमव्याकरणीयमेव, शब्दलिङ्गग्रहणे वणिते सति तद्वैलक्षण्यादेव
प्रत्यक्ष ज्ञास्यत इति । तस्मादिन्द्रियार्थसन्निकर्षात्पन्नपदोपादानमन्तरेण नानुमानादि 5 व्यवच्छेद उपपद्यत इति इदमपि न प्रत्यक्षलक्षणमनवद्यम् ।
अलमतिविस्तरेण परदर्शनगीतमतो विगतकलङ्कमस्ति न हि लक्षणमक्षधियः । तदमलमक्षपादमुनिनैव निबद्धमिदं
हरति मनांसि लक्षणमुदारधियाम् ॥ 10 अनुमानलक्षणपरीक्षणम्
एवं प्रमाणज्येष्ठऽस्मिन् प्रत्यक्ष लक्षिते सति ।
कथ्यतेऽवसरप्राप्तमनुमानस्य लक्षणम् ॥ तत्पूर्वकश्च त्रिविधमनुमानं पूर्ववच्छेपवत् सामान्यतोदृष्टश्च ॥५॥ तत्रानुमानस्वरूपं ब्रूमहे ततस्तत्र सूत्रं योजयिष्यामः ।
पञ्चलक्षणकाल्लिङ्गाद् गृहीतानियमे स्मृतेः ।
परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्षते ॥ अत्रापि लिङ्गविषयं ज्ञानं ज्ञानविषयीकृतं वा लिङ्ग प्रतिबन्धस्मरणसहितं प्रमाणम् । लिङ्गज्ञानं फलम् । लिङ्गिज्ञानस्य वा प्रमाणतायां पूर्ववदुपादानादिज्ञानं
फलमुपवर्णनीयम् । करणस्य हि प्रमाणत्वमिति स्थितमेवैतत् । तत्र परोक्षोऽर्थो 20 लिङ्गयते गम्यतेऽननेति लिङ्गम् । तच्च पञ्चलक्षणम्। कानि पुनः पञ्च लक्षणानि ?
पक्षधर्मत्वम्, सपक्षधर्मत्वम्, विपक्षाव्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वञ्चेति। सिषाधयिषितधर्मविशिष्टो धर्मी पक्षः, तद्धर्मत्वं तदाश्रितत्वमित्यर्थः । साध्यधर्मयोगेन नितिं धय॑न्तरं सपक्षस्तत्रास्तित्वम् । साध्यधर्मसंस्पर्शशून्यो धर्मी विपक्षः, ततो व्यावृत्तिः । अनुमेयस्यार्थस्य प्रत्यक्षेणागमेन वानपहरणमबाधितविषयत्वम् ।
15
25 अध्यवसायमात्रस्य प्रत्यक्षत्वे उत्सर्गत्वात् प्राप्ते लिङ्गशब्दजाध्यवसायस्य लिङ्गशब्द
विषयत्वेन प्रतिपादनात् तदितरस्थ प्रत्यक्षतेति तात्पर्यम् ।