________________
१६५
आह्निकम् ]
प्रमाणप्रकरणम् संशयबीजभूतेनार्थेन प्रत्यनुमानतया प्रयुज्यमानेनानुपहतत्वम्, असत्प्रतिपक्षत्वम् । एतैः पञ्चभिर्लक्षणरुपपन्नं लिङ्गमनुमापकं भवति । एतेषामेव लक्षणानामेकैकापायात् पञ्च हेत्वाभासा वक्ष्यन्ते । यस्य पक्षधर्मता नास्त्यसावसिद्धो हेत्वाभासः, यथा नित्यः शब्दः चाक्षुषत्वात् । साध्यविपर्ययव्याप्तस्तु विरुद्धः, स यथा नित्यः शब्दः कृतकत्वाद् आकाशवत् । सपक्षे सत्त्वं यस्य नास्ति सोऽनकान्तिकः, यथा नित्यः शब्दः 5 प्रमेयत्वादिति । यस्याबाधितविषयत्वं नास्ति स कालात्ययापदिष्टः, यथा अनुष्णस्तेजोऽवयवी कृतकत्वाद् घटवदिति । यस्य निष्प्रतिपक्षता नास्ति स प्रकरणसमः, यथा अनित्यः शब्दो नित्यधर्मानुपलब्धेः घटवत्, नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवदिति । सोऽयमेतेषु पञ्चसु लक्षणेष्वविनाभावो लिङ्गस्य परिसमाप्यते ।
ननु च त्रिलक्षणके हेतावविनाभावः परिसमाप्यते, न च तथाविधे बाधः 10 सम्भवति, बाधाविनाभावयोविरोधात् । यच्चेदमग्न्यनुष्णत्वसाधने कृतकत्वं त्रिलक्षणमपि बाधकविधुरितविषयमित्युदाहृतं तदसमीक्षिताभिधानम्, अत्र लक्षण्यानुपपत्तेः। पक्षधर्म एव तावदयं न भवति, प्रत्यक्षाद्यनिराकृतो हि पक्ष उच्यते, न चायमीदृश इत्यपक्ष एव, तद्धर्मो हेतुः कथं पक्षधर्मः स्यात् ? नाप्ययमन्वयो हेतुरन्वयग्रहणसमय एव तद् विप्लवावधारणात् । अन्वयो हि गृह्यमाणः सर्वाक्षेपेण यद् यत् 15 कृतकं तत्तदनुष्णमित्येवं गृह्यते । ततश्च तद्ग्रहणसमय एवायमुष्णोऽपि कृतक इति हृदयपथमवतरति तनूनपादिति कथमन्वयग्रहणम् ?
यदि त्वनलमुत्सृज्य घटादावन्वयग्रहः । नान्ताप्ति होता स्यात् साध्यसाधनधर्मयोः॥ ततश्चैवंविधाद्धेतोः स्वसाध्यनियमोज्झिात् ।
साध्याभिलाष इत्येवं षण्ढानुनयदोहदः ॥ अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य तन्निराकरणे तदपाकरणमवगन्तव्यम् । अपि च सिषाधयिषितधर्मवैपरीत्येन वह्नः प्रत्यक्षतो निश्चयाद् वस्तुवृत्तेन स एव विपक्ष इति न ततो व्यतिरेकः कृतकत्वस्येति। तस्मात् त्रैलक्षण्यापायादेव
बाधाविनाभावयोविरोधादिति । अविनाभावेन साध्यप्रतिबद्धं साधनं 25 ख्याप्यते, बाधया तु साध्यं विनापि साधनस्य सद्भाव इति ज्ञाप्यत इति विरोधः ।