________________
१६६
न्यायमञ्जयां
[द्वितीयम्
हेत्वाभासोऽयमिति न रूपान्तरमबाधितविषयत्वमपेक्षते। कथञ्चेदमबाधितत्वं निश्चीयते ?
न ह्यदर्शनमात्रेण बाधाविरहनिश्चयः । सर्वात्मना हि नास्तित्वं विद्युः कथमयोगिनः ॥ अनिश्चिते तदङ्ग च न हेतोर्हेतुता भवेत् ।
यथैव पक्षधर्मादिरूपाणामनुपग्रहे । ... तस्मादबाधितत्वं रूपान्तरमवचनीयमिति ।
अत्राभिधीयते । यदुक्तम् अन्वयग्रहणं सर्वाक्षेपेणेति तद्ग्रहणवेलायामेवसिषाधयिषितधर्मविपर्ययाध्यासितहुतवहस्वरूपपरिस्फुरणादन्वयशून्योऽयं हेतुरिति 10 तदहृदयङ्गमम् । अन्वयः सत्यं सर्वाक्षेपेण गृह्यते न पुनरेककर्मिसमुल्लेखेन । एवं
हि तदानन्त्यादन्वयो ग्रहीतुमेव न शक्यते, अनुमानस्य च वैफल्यमित्थं भवेदग्निमतां धृमवतां सर्वधर्मिणामन्वयावगमकाल एव गृहीतत्वात् ।
धूमो हि यत्र यत्रेति सामान्येनैव गृह्यते ।
न पुनः पर्वतेऽरण्ये गृहे वेत्येवमिष्यते ॥ 15 एवञ्च सत्याक्षेपवाचोयुक्तिरुपपन्ना भविष्यति ।
न चवं सति वक्तव्यं षण्ढानुनयमार्गणम् ।
न हि तद् वर्जमित्येवं व्याप्तिग्रहणमिष्यते ॥ सामान्येन च व्याप्ति होता सती सिषाधयिषितधयंपेक्षायां सैवान्तातिरुच्यते । यैव च नगलग्नाग्न्यनुमान समये तद्वयतिरिक्तकान्तारादिप्रदेशत्तिनी 20 बहियाप्तिरभूत् संव कालान्तरे कान्तारवत्तिनि वह्नावनुमीयमानेऽन्ताप्तिरव
तिष्ठते । तदिहापि यत्कृतकं तदनुष्णमिति सामान्यतः परिच्छेदान्न तदानीमनलोन्मेष इति सिद्धोऽन्वयः। व्यतिरेकोऽपि कार्ये तेजोऽवयविनि पक्षीकृते कृतकत्वस्य तेजः
एवञ्च सत्याक्षेपवाचोयुक्तिरिति । अन्यथा हि परामर्श एव स्यान्नाक्षेपः । * अप्रतीयमानस्य हि कल्पनमाक्षेप इति ।