________________
आह्निकम् ] प्रमाणप्रकरणम्
१६७ परमाणुभ्यो विधुतारकपरमाण्वनभ्युपगमे तु विपक्ष एव नास्तीति तदभावात् सुतरां तत्रावृत्तिर्भवतीति । न हि सपक्ष इव विपक्षे वृत्तिरिष्यते येन यत्नतः तसिद्धये यतेत । अग्निरेव विपक्ष इति चेन्, मैवम् । न हि पक्ष एव विपक्षो भवितुमर्हति ।
___ ननु वस्तूनामद्विरूपत्वात् पक्षो नाम परमार्थतो नास्त्येव साध्यधर्माधिकरणभूतश्चेत् सोऽर्थस्तत् सपक्ष एव, विपर्यये तु न विपक्षतामतिवर्त्तते । न च क्रमद्वय- 5 योगित्वं रूपद्वयरहितत्वं वा वस्तुनः समस्तीति। तदयुक्तम् । अनुमानोच्छेदप्रसङ्गात् । अद्विरूपत्वेऽपि वस्तूनां निसर्गविषयीकृतोऽर्थः कश्चित् पक्ष एषितव्यः, तदभावे तदपेक्षस्वरूपयोः सपक्षविपक्षयोरप्यभावः स्यात् । तदस्य पक्षस्य सतोऽपि सपक्षत्वमारोप्य यत्तेन व्यभिचारचोदनं तेनाग्न्यनुमानमपि विप्लवेत ।
___ ननु पर्वतादिर्धर्मो न ज्वलनाख्यसाध्यधर्मशून्यतया तत्र निश्चितः, तेजोऽ- 10 वयवी त्वनुष्णत्ववपरीत्येन प्रत्यक्षतो निश्चित इति, तत् किमिदानी पर्वतादिरग्निमत्तयानिश्चितः, तथाभ्युपगमे वा किमनुमानेन ?
ननु नपर्वतोऽग्निमत्तया निश्चितो नापि तद्वैपरीत्येन, किन्तु सन्दिग्ध एवास्ते। यद्येवं सन्दिग्धेऽपि विपक्षे वर्तमानो धूमादिरहेतुरेव स्यानिश्चितविपक्षवृत्तिवत् सन्दिग्धविपक्षवृत्तेरप्यहेतुत्वात् सर्वमनुमानमुत्सीदेत् । तस्मात् पक्षण व्यभिचार- 15 चोदनमनुचितमिति व्यतिरेकवानेवायं हेतुः । यत्पुनरभिहितम्। अनिराकृतपक्ष- ..
तदभावात् सुतरां तत्रावृत्तिरिति । तथा चाह
तस्माद् वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः ।
तदभावेऽपि तन्नेति वचनादपि तद्गतः ॥ ननु वस्तूनामद्विरूपत्वादिति । कथं हि यत् साध्यधर्माधिकरणतया लब्ध- 20 सपक्षव्यपदेशं तद्विपर्ययेण चासादितविपक्षभावं तदेव तथाविधं पक्षव्यपदेशं लभेते- .. त्यर्थः।
संदिग्धविपक्षवृत्तेरिति । श्यामोऽयं तत्पुत्रत्वादिति संदिग्धविपक्षवृत्तिः । यद्यपि दृश्यमानेषु तत्पुत्रेषु श्यामत्वदर्शनात् सपक्षवृत्तित्वमस्य तथाप्यदृश्यमानेषु कदाचिदश्यामेष्वपि तत्पुत्रत्वं भवेदिति तत्पुत्रत्वस्य विपक्षे अश्यामे च वृत्तिः सन्दिग्धा। 25 व्यतिरेकवानेवायं हेतुरिति । न सन्दिग्धविपक्षवृत्तिरित्यर्थः ।