________________
१६८ न्यायमञ्जयां
[द्वितीयम् वृत्तित्वमस्य नास्तीति, तत् सत्यम् । वयमप्य, पक्षमध्यक्षबाधितमिच्छाम एव, यत्तु म पक्षमाप्रपर्यवसितो बाधः किन्तु हेतुमपि स्पृशति ।
न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन । प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते ॥ स न साधयितुं शक्यः प्रत्यक्ष प्रतियोगिनि । साध्यापहारद्वारेण हेतुर्भवति बाधितः॥ अबाधितानुमेयत्वमत एवास्य लक्षणम् । ननु हेतुरसिद्धोऽयं ज्वलने वृत्तिसम्भवात् ॥ यत्तु बाधितता ज्ञातुं शक्या नेति विकल्पितम्। पक्षस्यापि महाभाग कथं तां प्रतिपत्स्यसे । प्रयत्ने क्रियमाणेऽपि यदि बाधा न दृश्यते।
नास्त्येवेत्यवगन्तव्यं व्यवहारो हि नान्यथा ॥ अतस्त्रिलक्षणेऽपि हेतौ बाधसम्भवादबाधितत्वं रूपान्तरं वक्तव्यम् । एवञ्च यदुच्यते बाधाविनाभावयोविरोधादिति तत् कथञ्चिद् युक्तं कथञ्चिदयुक्तम् । पञ्च15 लक्षणके लिङ्ग यः परिसमाप्तोऽविनाभावस्तत्र नास्त्येव बाध इत्येवं युक्तमेतत् । त्रिलक्षणकलिङ्गाविनाभावाभिप्रायेण त्वयुक्तमेतदित्यलं प्रसङ्गेन।
नियमस्मृतेरिति, विवियतां कोऽयं नियमो नाम ? व्याप्तिरविनाभावो नित्यसाहचर्यमित्यर्थः।
10
व्यवहारो हि नान्यथेति । यत्ने क्रियमाणेऽपि यन्नोपलभ्यते तच्चेन्नास्ति20 तया निश्चीयते तदा सर्पाद्यभावनिश्चयनिबन्धनो व्यवहारो न स्यात् । अत एव विरुद्धा
व्यभिचारीति' । अत एव वस्तुनोऽद्विरूपत्वादेव परैरिष्टोऽपि भवद्भिविरुद्धाव्यभिचारी नेष्यत इति ।
१--अतःपरं 'अत एव विरुद्धाव्यभिचारीति' ग्रन्थप्रतीकष्टिप्पण्यां वर्त्तते परन्तु तादृशीग्रन्थपंक्तिर्न दृश्यतेऽत्र ।