________________
आह्निकम् ]
व्याप्तिग्रहोपाये शाक्यमतम्
आह नैतावत्येव विरन्तुमुचितम्, तस्य तदविनाभावित्वमित्यत्र हि निमित्तमन्वेषणीयं तार्किकः । तच्च तादात्म्यतदुत्पत्तिरूपमीक्षितवन्तो भिक्षवः । यो हि यदात्माभावः स कथं तमुत्सृजति ? वृक्षात्मिकैव हि शिशपा तेन वृक्षत्वमनुमापयति सोऽयं स्वभाव हेतुरुच्यते वृक्षोऽयं शिशपात्वादिति । तत्र तादात्म्यं प्रतिबन्धः, 5 कार्यश्व नाम कारणाधीनात्मलाभमेव भवति न कारणानपेक्षमिति, तदुपलभ्यमानं तदनुमापयत्यग्निरत्र धूमादिति । कार्य हेतौ तदुत्पत्तिः प्रतिबन्धः । एवं हि द्विविधं प्रतिबन्धमनुमेयाव्यभिचारनिबन्धनमनुक्त्वा केवलसाहचर्य नियममात्रवर्णनं यत् प्रसारिका संवेति ।
प्रमाण प्रकरणम्
१६६
शाक्य मतखण्डनम्
उच्यते । पादप्रसारिकैव साधीयसी स्थूलदृष्टिभिरवलम्बिता, परं न सूक्ष्मदृष्टिभिरुत्प्रेक्षतास्तादात्म्यादिप्रतिबन्धाः । तादात्म्ये तावद् गमका हेतुसाध्ययोरव्यतिरेके गम्यगमकभाव एव दुरुपपपादः । न खल्वगृहीतं लिङ्ग लिङ्गिप्रतीतिमाधातुमर्हति । तत्र लिङ्गबुद्धौ लिङ्ग प्रतिभासते न वा ? अप्रतिभासे तद्बुद्धया तदग्रहणात् कथं तस्य तदात्मकत्वम् ? प्रतिभासे तु लिङ्गवत् प्रत्यक्ष एव सोऽर्थ 15 इति किमनुमानेन ? विपरीत समारोपव्यवच्छेदार्थ मनुमानमिति चेद् ? न । तत्स्वरूपग्रहणे विपरीतारोपणावसराभावात् । न हि शिरः पाण्यादिविशेषदर्शने सति स्थाणुसमारोपः प्रवर्त्तते । तत्र तद्भेदादुपपद्येतापि न हि शिरः पाण्यादय एव पुरुष इति । तद्ग्रहणेऽप्यपुरुषारोपः कामं भवेत् । इह वृक्षत्वशिशपात्वयोरभेदात् शिशपात्वग्रहणे सति का कथा वृक्षेतरसमारोपस्य ? अपि च वृक्षत्वग्रहणे सति सामान्यधर्मग्रहणाद् विशेषानध्यवसायात् कदाचिदशशपारोपः स्यात्, न तु शिशपात्वग्रहणे सति अवृक्षत्वसमारोपों युक्तः ।
10
20
CO
विपरीतसमारोपव्यवच्छेदार्थमिति । यो हि द्राघीयसीषु शिशपासु प्रवृत्तवृक्षव्यवहारो लघ्व्यां शिशपायामवृक्षत्वमारोपयति तस्यासौ आरोपोऽनेन व्यवच्छि द्यते “वृक्षोऽयं शिशपात्वात्" । शिशपात्वप्रतिबद्धं वृक्षत्वं न द्राघीयस्त्वादिप्रतिबद्ध - 25 मित्यर्थः ।
२२