________________
१७०
न्यायमञ्जय
प्रमातुः शिशपात्वं हि यस्य प्रत्यक्षगोचर: । परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम् ॥
किञ्च साध्यसाधनयोरव्यतिरेकाद् यथा शिशपात्वेन वृक्षत्वमनुमीयते तथा वृक्षत्वेनापि शिशपात्वमनुमीयेत तादात्म्याविशेषात् । तथा च प्रयत्ननान्तरीय5 कत्वेनानित्यत्वं साध्यते तद्वद् अनित्यत्वेनापि तत्साध्येत । ततश्च सपक्षव्याप्त्यव्याप्तिभ्यां कृतकत्वप्रयत्ननान्तरीयकत्वयोर्यो भेद उक्तः स हीयेत ।
15
ननु चान्यः सम्बन्धोऽन्यश्च प्रतिबन्धः । द्विष्ठः सम्बन्धः प्रतिबन्धस्तु परायतत्वलक्षणः । तत्र शिशपात्वं वृक्षत्वे प्रतिबद्धं न वृक्षत्वं शिशपात्वे । प्रयत्ननान्तRarerantara नियतं न त्वनित्यत्वं तत्रेति । तथा धूमस्याग्नौ प्रतिबन्धो न 10 त्वग्नेर्धूमे, सत्यमेवम्, किन्त्वेवमुच्यमाने नियम एवाङ्गीकृतो भवेद् न तादात्म्यम् । तादात्म्ये हि यथा शिशपात्वं शिशपां विना न दृश्यते तथा वृक्षत्वमपि शिशपारहितं न दृश्यते । दृश्यते च खदिरादौ शिशपारहितं वृक्षत्वम्, विद्युदादौ च प्रयत्ननान्तरीयकत्वरहितमनित्यत्वमुपलभ्यते इति कथमभेदः ?
[ द्वितीयम्
25
विना साधनधर्मेण साध्यधर्मोऽयमस्ति हि । दृष्टस्तद्वयतिरेकेण तदात्मा चेति कैतवम् ॥
अथ विद्युदाद्यनित्यत्वादन्यदेव घटाद्यनित्यत्वं यत्प्रयत्ननान्तरीयकत्वाभिन्नमुच्यते तर्हि धर्मिभेदेन धर्माणां भेदेऽन्वयग्रहणानुपपत्तेः सर्वमनुमानमुत्सीदेत् । धूमाग्न्योस्तु कार्यकारणयोर्भेदाद्युक्तं वक्तुं धूमस्याग्नौ प्रतिबन्धो न त्वग्नेर्धूमे । इह तु साध्यसाधनयोरव्यतिरेकान्न तथा शक्यते वक्तुम्, तथाभिधाने वा नाव्यतिरेकः, 20 सर्वदा तादात्म्यं वा त्यज्यतां वृक्षत्वानित्यत्वाभ्यां शिशपात्वप्रयत्ननान्तरीयकत्वे अनुमीयेताम् नान्तरावस्थातुं लभ्यते । यश्चायमनित्यः शब्दः कृतकत्वादिति स्वभावहेतुरुदाहृतः स कथं स्वभावहेतुः ? इदं हि चिन्त्यताम्, अनित्यत्वं नाम किमुच्यते ? fara कृतकत्वमिति । तत्रानित्यत्वं विनाशयोगः, उत्पत्तियोगश्च कृतकत्वम् । उत्पन्नस्य च भावस्य विनाशो न तु उत्पाद एव विनाश इति कथं साध्यसाधनयोरव्यतिरेकः ?
अथ विद्युदाद्यनित्यत्वादिति । यदनित्यत्वं प्रयत्नान्तरीयकत्वप्रतिबद्धं न तत् ततोऽन्यत्र विद्युदादाविति नास्ति तस्य ततोऽन्यत्र वृत्तिरिति ।