________________
प्रमाणप्रकरणम्
१७१
आह्निकम् ] अत्र चोदयन्ति, विनाशयोगे ह्यनित्यत्वे विनाशी शब्द इति बुद्धिः स्यान्ननानित्य इति, एष्या च मिथ्याबुद्धिः शिखरिण एव कृशानुविशेषितस्य विनाशक्तः शब्दस्य ग्रहीतुमशक्यत्वात्।
अमावेन हि धर्मेण तद्वत्ता धर्मिणः कथम् ।
अभावग्रहवेलायां मिणोऽनुपलम्भनात् ॥ - अनित्यत्वमिति च भावप्रत्ययः कथमभावे भवेद्, विरुद्धत्वात् । तस्मादुभयान्तपरिच्छिन्ना वस्तुसत्ता अनित्यत्वमुच्यताम् । कृतकत्वमपि सत्तैव कारणोत्पादिताधारा सती कथ्यत इति। एवञ्च सत्तैव साध्यं साधनञ्चेति सिद्धं स्वभावहेतुत्वम् । तदिदमनुपपन्नम् । साध्यसाधनयोस्तथात्वेनानवभासनात् । एवं ह्यच्यमाने शब्दः सत्तावान् सत्तावत्त्वादिति प्रतीतिः स्यात्, न चैवं दृश्यते, अपि तु अनित्यः शब्दः कृत- 10 कत्वादिति । अथोभयान्तपरिच्छिन्ना सत्ता साध्या कारणनिर्वाश्रयसमवायिनी च साधनमित्युच्यते, तदेतदघटमानम् । विनाशरूपस्यान्तस्य तदानीमविद्यमानत्वेन सत्तापरिच्छेदकत्वाभावात् ।
बुद्धिस्थेनाथ तेनास्याः परिच्छेदोऽभ्युपेयते । शब्दस्यैव परिच्छेदो विनाशेनास्तु तादृशा॥ धर्मः समानकालोऽपि बुद्धयैव विषयीकृतः।
तद्विशेषणतां याति तथा भाव्यपि यास्यति । तदेवं विनाशी शब्द इति विशेषणविशेष्यभावसिद्धः किं सत्तासाध्यकल्पनया। यत्पुनरभिहितम् अभावे भावप्रत्ययस्त्वतलादिनस्यादिति, तदत्यन्तानभिज्ञस्य चोंद्यम्, शब्दप्रवृत्तिनिमित्तस्य तत्र भावप्रत्ययेनाभिधानात्, यस्य गुणस्य हि 20 भावाद् द्रव्ये शब्दनिवेश इति, अभावेऽपि अभावत्वमिति दर्शनात् । तस्माद् बुद्धिस्थ
अनित्यत्वमिति भावाभिधायोति । 'तस्य भावस्त्वतलौ' इति त्वप्रत्ययस्य भावाभिधायित्वम्, न चाभावस्य भावोऽस्तीति विरुद्धम्। तस्मादुभयान्तेति । गभावप्रध्वंसाभावविशिष्टवस्त्वाधारा सत्ता उभयान्तपरिच्छिन्नेत्यभिधीयते ।
विनाशेनास्तु तादृशा भाविना।
विनाशी शब्दः अनित्यः शब्द इति । 'यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलादयः' इत्यत्र द्रव्यशब्देन विशेष्यमुक्तम्, गुणशब्देन तु