________________
१७२
न्यायमञ्जयां
[द्वितीयम् विनाशयोग एवानित्यत्वम्, कृतकत्वमपि उत्पत्तियोग एव न सत्ता। कारणोत्पादिताश्रयावच्छेदे तु तस्या इष्यमाणे धर्मिण एव तदवच्छेदो भवत्विति किं सोपानान्तरेण?
ननत्पादविनाशाख्यं न धर्मद्वयमन्वयि ।
यद् घटे नास्ति तच्छब्दे यच्च शब्दे न तद् घटे ॥ अर्थक एव धर्मः सर्वभावसम्बन्धी इष्येत तर्हि
एकभावसमुत्पादे सर्वोत्पादः प्रसज्यते।
एकप्रलयकाले च सकलप्रलयो भवेत् ॥
तस्मात् सत्तापक्ष एव वरम् । नैतदेवम् । धर्मिभेदेऽपि धर्माणां तुल्यरूपाणा___10 मवभासात्।
न घटादिस्वरूपं हि नाश इत्यवकल्पते। येनानन्वयदोषः स्यात् तभेदोपनिबन्धनः ॥ एकत्वमपि धर्मस्य नास्ति सर्वेषु धर्मिषु ।
येनकध्वंससमये सकलध्वंससङ्करः ॥ 15 भिन्नत्वेऽपि च धर्माणां समानरूपत्वेनावभासमानत्वादन्वयग्रहणादिकार्य
विरोधः, अत एव सामान्यमन्तरेणापि समानधर्ममूलान्वयादिव्यवहारोपपत्तेः । तत्र नसूत्रकारेण सामान्यग्रहणं कृतम्, अपितु साधर्म्यग्रहणमुपात्तम्, 'उदाहरणसाधात्साध्यसाधनं हेतुः' 'साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणमिति । तेन विनाशोत्पादधर्मयोः साध्यसाधनभावात्, तयोश्च भेदाद् अनित्यः शब्दः कृतकत्वादिति
20 तत्र शब्दस्य प्रवृत्तिनिमित्तमात्रमुक्तमिति मन्यते, तच्चाभावेऽपि किञ्चिदरित यद्वशा
दभावत्वमिति भवति; तच्च भाववैलक्षण्यादि किञ्चिदवश्यकल्प्पमित्यभिप्रायः । धर्मिण एव तदवच्छेदो भवत्विति । कारणोत्पादावच्छिन्नो धर्येव कृतकः, तस्य च यः कारणत उत्पादस्तदेव कृतकत्वमिति ।
एक एव धर्म इति । उत्पादाख्यो विनाशाख्यश्च । 25 न सूत्रकारेण सामान्यग्रहणं कृतमिति । 'उदाहरणसामान्यात् साध्यसाधन
हेतुः' इति हि क्रियमाणे न घटाख्योदाहरणसामान्यघटत्वं शब्देऽस्तीत्यहेतुत्वं स्यात् ।