________________
आह्निकम् ]
प्रमाणप्रकरणम् अथ वा, भवतु नाम नीलादावुक्तेन प्रकारेण राश्यन्तरनिराकरणम् । परोक्षनिर्णये तु नैष प्रकारो योजयितुं शक्यते । विषये हि प्रवृत्तं प्रत्यक्षं विषयस्वरूपमेव परिच्छिनत्ति, न पुनस्तस्य प्रत्यक्षतामपि । नीलमिदमिति हि संवेद्यते न पुनः प्रत्यक्षमिदमिति । तथा हि किमिदं विषयस्य प्रत्यक्षत्वं नाम ? किमक्षविषयत्वम ? उताक्षजज्ञानविषयत्वमिति ? तत्राक्षविषयत्वं तावदन्वयव्यति- 5 रेकसमधिगम्यमेव, न प्रत्यक्षगम्यम् । तथाह भट्टः
न हि श्रावणता नाम प्रत्यक्षेणावगम्यते।
नान्वयव्यतिरेकाभ्यां ज्ञायते बधिरादिषु ॥ इति । अक्षजज्ञानकर्मत्वमपि प्रत्यक्षत्वं तदानीं परिच्छेत्तुमशक्यमेव, विषयप्रतिभासकाले तत्प्रतिभासस्याप्रतिभासात् । तद्ग्रहणमन्तरेण च तत्कर्मताग्रहणा- 10 सम्भवात् कथं पुनविषयग्रहणकाले तज्ज्ञानस्यानवभासः ? नैव युगपदाकारद्वितयं प्रतिभासते, इदं ज्ञानमयञ्चार्थ इति भेदानुपग्रहात् । एकश्चायमाकारः प्रतिभासमानो ग्राह्यस्यैव भवितुमर्हति, न ग्राहकस्येति वक्ष्यते । ____ ननु च नागृहीतं ज्ञानमर्थप्रकाशनकुशलं भवतीत्याहुः 'अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति' । प्रत्यक्षोपलम्भस्य नार्थदृष्टिरुपलम्भ एव प्रत्यक्ष इति 15 द्वितीयाकारानवभासात्कुतोऽर्थदृष्टिः ? यदि च गृहीतं ज्ञानमर्थं प्रकाशयेन्न द्वयीं गतिमतिवर्तेत । तद्धि ज्ञानं ज्ञानान्तरग्राह्यं वा भवेत्, स्वप्रकाशं वा ? ज्ञानान्तरग्राह्यत्वे त्वनवस्था मूलक्षतिकरी चेयमित्यन्धमूकं जगत्स्यादुपलम्भप्रत्यक्षतापूर्वकार्थप्रत्यक्षवादिनः। नापि स्वप्रकाशं ज्ञानम्, जेयत्वान्नीलपीतादिवत । विस्तरतस्तु स्वप्रकाशं विज्ञानं विज्ञानबादिनिराकरणे निराकरिष्यामः।
20 न च ज्ञानस्याप्रत्यक्षतायां तदुत्पादानुत्पादयोरविशेषादज्ञत्वम्, सर्वज्ञत्वं वा परिशङ्कनीयम्, विज्ञानोत्पादमात्रेण ज्ञातुर्ज्ञातृत्वसिद्धः। विषयप्रकाशस्वभावमेव
इति वक्तारो भवन्ति, न तु पश्याम इति । ज्ञायते बधिरादिष्विति । सति श्रवणेन्द्रिये ग्रहणाच्छावणः शब्दः, बधिरादिषु च श्रवणेन्द्रियवैकल्यादसति श्रवणे ग्रहणाभावादिति । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति । अप्रत्यक्ष उपलम्भो यस्यार्थस्य तस्य 25 दृष्टिदर्शनं न प्रसिद्ध्यतीत्यर्थः । सापेक्षेणाप्यर्थशब्देन गमकत्वात् समासः।