SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जयां [प्रथमम् नानाप्रमाणगम्यश्च विषयो नास्ति वास्तवः । तद्वानवयवी जातिरिति वाकभद्रिका ॥ यदि च प्रत्यक्षविषये शब्दानुमानयोरपि वृत्तिरिष्यते तहि प्रत्यक्षसंवित्सदृशीमेव तेऽपि बुद्धि विदध्यातां, न चैवमस्ति । तदाहुः समानविषयत्वे च जायते सदृशी मतिः। न चाध्यक्षधिया साम्यमेति शब्दानुमानधीः॥ तेजोऽन्यदेव नक्षत्रशशाङ्कशकलादिषु । उद्घाटितजगत्कोशमन्यदेव रवेर्महः॥ अपि च अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः। शब्दात्प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्ष्यते ॥ आह च _अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ तस्मादुक्तेन वर्मना विषयद्वैविध्यनिश्चयान तृतीयं प्रमाणमस्ति । न च संप्लव इति। 10 15 शाक्यमतखण्डनम् अत्राभिधीयते यत्तावदिदमाख्यायि राश्यन्तरनिराकृतौ। प्रत्यक्षस्यैव सामर्थ्यमित्येतन्नोपपद्यते ॥ पूर्वापरानुसन्धानसामर्थ्यरहितात्मना। भारः कथमयं वोढुमविकल्पेन पार्यते ॥ विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः। तेभ्यो वस्तुव्यवस्थायाः का कथा भवतां मते ॥ उत्प्रेक्षामात्रनिष्ठितशक्तय इति । बहिरसन्नप्याकारोऽविद्योपप्लवाद् विकल्पैरुत्प्रेक्ष्यते समुल्लिख्यते । तावत्येव च विकल्पानां व्यापारपरिनिष्ठा दृष्टा, न पुनर्वस्तुदर्शनेऽपि । तथाहि- समस्तेन्द्रियवृत्तिव्यापारनिरोधे विकल्पयन्त उत्प्रेक्षामह 25
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy