________________
प्रमाणप्रकरणम्
10
आह्निकम् ]
ननु न त्वं द्वितीयमिव तृतीयं कदाचिदपि विषयमग्रहीः, ग्रहणे हि विषयद्वयवत्तस्यापि सत्त्वं स्यात् । अगृहीतस्य च विरोधमविरोधं वा कथं निश्चेतुमर्हसीति । भोः साधो ! नात्र पृथग्ग्रहणमुपयुज्यते, तबुद्धयनवभासमात्रेणव तद्विरोधसिद्धः । विरुद्धं हि तदुच्यते यत्तस्मिन् गृह्यमाणे न गृह्यते । तदिदमग्रहणमेव विरोधावहमिति न पृथग्ग्रहणमन्वेषणीयम् । एवमितरेतरपरिहारव्यवस्थिता- 5 नामर्थानां न तृतीयो राशिरस्तीति सर्वथासिद्धं विषयद्वैविध्यम् । एवमेव सदसन्नित्यानित्यक्रमयोगपद्यादिषु प्रकारान्तरपराकरणमवगन्तव्यम् । तत्र प्रत्यक्ष स्वलक्षणात्मनि विषये प्रत्यक्ष प्रवर्त्तते। परोक्षे तु सामान्याकारेऽनुमानमिति ।
प्रमाणद्वयसिद्धे च विषयद्वयवेदने ।
वद कस्यानुरोधेन तृतीयं मानमिष्यताम् ॥ न चास्मिन्नेव परोक्षे सामान्यात्मनि विषयेऽनुमानमिव शब्दाद्यपि प्रमाणान्तरं प्रवर्तत इति वक्तुं युक्तम्, एकत्र विषये विरोधविफलत्वाभ्यामनेकप्रमाणप्रवृत्त्यनुपपत्तेः । पूर्वप्रमाणावगतरूपयोगितया तस्मिन्वस्तुनि पुनः परिच्छिद्यमाने प्रमाणमुत्तरमफलम् । एवं ह्याहुः 'अधिगतमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति । 'अन्य रूपतया तु तद्ग्रहणमुत्तरप्रमाणेन दुःशक्यम्, आदिप्रमाणविरुद्ध- 15 . त्वात्' इति । अत एव न संप्लवमभ्युपगच्छन्ति नीतिविदः । एकस्मिन् विषयेऽनेकप्रमाणप्रवृत्तिः संप्लवः। स च तथाविधविषयनिरासादेव निरस्तः। न च प्रत्यक्षानुमानेऽपि परस्परं संप्लवेते, स्वलक्षणेऽनुमानस्य, सामान्ये च प्रत्यक्षस्य प्रवृत्त्यभावात्।
संबन्धग्रहणापेक्षमनुमानं स्वलक्षणे । सजातीयविजातीयव्यावृत्ते वर्ततां कथम् ॥ प्रत्यक्षमपि सद्वस्तुसंस्पर्शनियतव्रतम् । विकल्पारोपिताकारसामान्यग्राहकं कथम् ॥ यच्च शब्दोपमानादिप्रमाणान्तरमिष्यते। तदेवं सति कुत्रांशे प्रतिष्ठामधिगच्छतु ॥ वस्तु स्वलक्षणं तावत्प्रत्यक्षेणैव मुद्रितम् । ततोऽन्यदनुमानेन संबन्धापेक्षवृत्तिना ॥