________________
४४
न्यायमञ्जयां
[प्रथमम् प्रत्यक्षमनीलमपि व्यवच्छिनत्ति नीलसंविदि तस्याप्रतिभासात् । नीलज्ञानप्रतिभास्यं हि नीलमिति तदितरदनीलमिव भवति । तृतीयमपि राशिम अद एव तदपाकरोति, सोऽपि हि राशिर्नीलसंविदि भाति वा न वा।
भाति चेन्नीलमेव स्यान्न प्रकारान्तरन्तु तत् ।
नो चेत्तथाऽप्यनीलं स्यान्न प्रकारान्तरं हि तत् ॥ इदमेव हि नीलानीलयोर्लक्षणं यन्नीलज्ञानावभास्यत्वानवभास्यते नाम । एवञ्च प्रत्यक्षं स्वविषये प्रवृत्तं तं प्रत्यक्षतया व्यवस्थापयति । तत्राप्रतिभासमानं परोक्षतया तृतीयमपि प्रकारं पूर्ववदेव प्रतिक्षिपतीत्येवं स्वलक्षणसामान्यव्यति
रिक्तविषयानिषेधेऽप्येष एव मार्गोऽनुगन्तव्यः। एवं हि प्रत्यक्षेण स्वविषयः 10 परिनिश्चितो भवति तदुक्तम्, 'तत्परिच्छिनत्ति, अन्यव्यवच्छिनति, तृतीयप्रकारा- भावञ्च सूचयती'त्येकप्रमाणव्यापारः ।
अन्यथा विषयस्यैव स्वरूपापरिनिश्चयात् ।
क्वोपादानपरित्यागौ कुर्युरर्थक्रियार्थिनः ॥ तदुक्तम् 'अनलार्थ्यनलं पश्यन्नपि न तिष्ठेन्न प्रतिष्ठेते'ति । यद्यपि 15 निर्विकल्पकं प्रत्यक्षं पुरोऽवस्थितवस्तुस्वलक्षणम, प्रदर्शनमात्रनिष्ठितव्यापार
मविचारकमेव, तथापि तत्पृष्ठभाविनां विकल्पानामेव च दर्शनविषये कृतपरिच्छेदतदितरविषयव्यवच्छेदतृतीयप्रकाराभावव्यवस्थापनपर्यन्तव्यापारपाटवमवगन्तव्यमितरथा व्यवहाराभावात्। एवञ्च परस्परं परिहारव्यवस्थित
स्वरूपपदार्थव्यवच्छेदिप्रत्यक्षप्रभावावगतविरोधात प्रत्यक्षतरविषययोस्तृतीय20 विषयासत्त्वपरिनिश्चयेऽनुमानमपि प्रतितमुत्सहते। विरुद्धयोरेकतरपरिच्छेद
समये द्वितीयनिरसनमवश्यं भाति विरुद्धत्वादेव शीतोष्णवत्। तृतीयविषयोऽपि तद्विरुद्ध एव तद्बुद्धावप्रतिभासमानत्वात् ।
तदुक्तम् अनलार्थ्यनलमिति । अनलस्यापि तत्र प्रतिभासान्न तिष्ठेदन्यस्यापि च प्रतिभासान्न प्रतिष्ठेत न गच्छेत्; अनलार्थिनस्तदन्यप्रतिभासे कथं प्रस्थानं 25 स्यादिति । इतरथा व्यवहाराभावादिति । यावत् तदितरव्यवच्छेदेन जलेऽजलरूपताया
अभावेन जलमेवेति विकल्पेन न निश्चीयते तावत् तदथिनां तत्र प्रवृत्तिरूपो व्यवहारः कथ स्यादिति।