________________
Y३
आह्निकम् ]
प्रमाणप्रकरणम्
सामान्यलक्षणं ततो विभागः। सिद्धान्तच्छलवदुभयं वा युगपदेव प्रतिपाद्यत इति तन्त्रेणावृत्त्या वा तदुपपादने न कश्चिद्दोष इति । प्रमाणचातुर्विध्ये शङ्का
आस्तां तावदिदं सूत्रे तन्त्रावृत्त्यादिचिन्तनम् ।
चतुःसङ्घया प्रमाणेषु ननु न क्षम्यते परैः॥ न्यूनाधिकसङ्घयाप्रतिषेधेन हि चत्वारि प्रमाणानि प्रतिष्ठाप्येरन् । स च दुरुपपादः । तथाहि प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः । प्रत्यक्षानुमाने द्वे एवेति बौद्धाः । प्रत्यक्षमनुमानमाप्तवचनञ्चेति त्रीणि प्रमाणानीति साङ्ख्याः। आधिक्यमपि प्रमाणानां मीमांसकप्रभृतयः प्रतिपन्नवन्तः । तत्कथं चत्वार्येव प्रमाणानीति विभागनियमः ?
10 उच्यते । अनुमानप्रामाण्यं वर्णयन्तो बार्हस्पत्यं तावदुपरिष्टात्प्रतिक्षेप्स्यामः। शब्दस्य चानुमानवलक्षण्यं तल्लक्षणावसर एव वक्ष्यत इति, शाक्यपथोऽपि न युक्तः । शाक्यमते प्रमाणद्वैविध्यम् नन्वेतद्भिक्षवो न क्षमन्ते।
ते हि प्रमेयद्वैविध्यात प्रमाणं द्विविधं जगुः ।
नान्यः प्रमाणभेदस्य हेतुर्विषयभेदतः॥ विषयश्च प्रत्यक्षपरोक्षभेदेन स्वलक्षणसामान्यभेदे वा द्विविध एव, परस्परपरिहारव्यवस्थितात्मसु पदार्थेषु तृतीयराश्यनुप्रवेशाभावात्। तृतीयविषयासत्त्वपरिच्छेद एव कुतस्त्य इति चेत् ? प्रत्यक्षमहिम्न एवेति ब्रूमः । नीले 20 प्रवर्त्तमान प्रत्यक्षं नीलं नीलतया परिच्छिनत्तीति तावदविवाद एव । तदेव च
शब्द प्रयोक्तु प्रभवतस्तत्र तन्त्रव्यवहारः, यथैकं दीपं युगपद् बहवश्चिन्तकाश्छात्राः प्रयुञ्जते, यत्र तु युगपत् प्रयोक्तुमसामर्थ्य तत्र तन्त्रप्रत्यनीकभूता आवृत्तिः, यथा असहभोजिनामेकं पात्रं युगपद् भुजिक्रियायामधिकरणभावमप्रतिपद्यमानं क्रमेण प्रतिपद्यते। आवृत्तौ हि पूर्वार्थसिद्धिसापेक्षत्वादुत्तरार्थसिद्धेर्युगपत् प्रयोक्तृत्वाभावः ।