________________
न्यायमञ्जयां
[प्रथमम् व्युदस्यते। अतश्चैवमुक्तं भवति अर्थविषयमसन्दिग्धमव्यभिचारि च ज्ञानं येन जन्यते तत्प्रमाणमित्येवमेकस्मादेव सूत्रात सामान्यलक्षणं विभागश्चावगम्यते।
नन्वेकस्य सूत्रस्य विभागसामान्यलक्षणपरत्वेन वाक्यभेदः । अर्थंकत्वाच्चैकं 5 वाक्यं युक्तम् । उच्यते
श्रत्यर्थद्वारकानेकवस्तुसूचनशालिषु । सूत्रेष्वनेकार्थविधेर्वाक्यभेदो न दूषणम् ॥ प्रमाणान्तरसंस्पर्शशून्ये शब्दैकगोचरे। प्रमेये वाक्यभेदादिदूषणं किल दूषणम् ॥
अर्थद्वयविधानं हि तत्रैकस्य न युज्यते । 'राजा स्वाराज्यकामो वाजपेयेन यजेते'ति गुणविधिपक्षे स्वाराज्यं प्रति यागो विधातव्यः, यागञ्च प्रति वाजपेयगुणो विधातव्यः, इत्येकस्य वाक्यस्य परस्परविरुद्धविध्यनुवादादिरूपापत्तरर्थद्वयविधानमतिदुर्घटम् । इह पुनः
प्रमाणान्तरपरिनिश्चितार्थसूचनचातुर्यमहार्येषु सूत्रेषु नानार्थविधानं भूषणं भवति 15 न दूषणम् । अनेकार्थसूचनादेव सूत्रमुच्यते। एतदेव सूत्रकाराणां परं कौशलं
यदेकेनैव वाक्येन स्वल्परेवाक्षरैरनेकवस्तुसमर्पणम्। अध्याहारेण वा तन्त्रेणावृत्त्या वा तमर्थ प्रत्याययिष्यति सूत्रमिदमिति न दोषः। विभागसामान्यलक्षणयोविधाने पौर्वापर्यनियमो विशेषणलक्षणवन्नास्तीति । तन्त्रेण युगपदु
भयाभिधानमपि न विरुध्यते। विशेषलक्षणेऽनुक्ते सामान्यलक्षणविभाग20 योस्तु यथारुचि प्रतिपादनमादौ विभागस्ततः सामान्यलक्षणम, आदौ वा
राजा स्वाराज्यकाम इति । स्वेनात्मना राजते अन्यानभिभूयेति स्वराट्, तस्य तद् विधीयते, द्रव्यदेवतात्मककारकसम्पाद्यत्वाद् यागस्य । परस्परविरुद्धविध्यनुवादादिरूपापत्ते तस्माद्धि स्वाराज्यं प्रति यागस्य विधानाद् विधेयत्वम्, तत्सिद्धयर्थमुपादानादुपादेयत्वम् , तदर्थत्वेनावगमाद् गुणत्वम् । यदा तु गुणस्तत्र विधीयते तदा यागस्यानुवादादनूद्यमानत्वम्, गुणस्य विधातुमुद्दिष्टत्वादुद्देश्यत्वम् , तदर्थत्वेन गुणस्यावगमात् प्रधानत्वम् । तदेवं विधेयत्वमुपादेयत्वं गुणत्वमिति त्रिकमनूद्यमानत्वं निर्देश्यत्वं प्रधानत्वमिति त्रिवेण विरुध्यते । तन्त्रेणावृत्त्या वेति । यत्र द्वार्थिनावर्थे युगपदेकं