________________
आह्निकम् ]
प्रमाणप्रकरणम् तच्चतुर्विधं प्रमाणं तदाह सूत्रकारः, 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ।'
इह हि भेदवतः प्रथम सूत्रोद्दिष्टस्य त्रयं वक्तव्यम्, सामान्यलक्षणम्, विभागो, विशेषलक्षणञ्च । तत्र विशेषलक्षणप्रतिपादकानि चत्वारि सूत्राणि भविष्यन्तीन्द्रियार्थसन्निकर्षोत्पन्नम् इत्यादीनि । इह तु विभागसामान्यलक्षणे प्रतिपाद्यते। 5
एकेनानेन सूत्रेण द्वयञ्चाह महामुनिः। प्रमाणेषु चतुःसङ्घयं तथा सामान्यलक्षणम् ॥
प्रत्यक्षानुमानोपमानशब्दसन्निधाने प्रमाणश्रुतिरुच्चरन्ती चत्वार्येव प्रमाणानीति दर्शयति ।
ननु न 'चत्वारि प्रमाणानि' इति संख्यावचनः शब्दः श्रूयते । नापि प्रत्यक्षादी- 10 न्येवेत्यवधारणश्रुतिरस्ति । तत्कुतः इयत्तानियमावगमः ? शब्दशक्तिस्वभावादिति ब्रूमः। 'गाँस्त्रीन भोजय' 'यज्ञदत्तदेवदत्तावानये ति विना संख्याशब्दमेवकारञ्च भवत्येव त्रित्वद्वित्वनियमावगमः। एवमिहापि प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीत्युक्ते सामर्थ्यान्न्यूनाधिकसंख्याव्यवच्छेदोऽवधार्यत इत्येवं तावद्विभागावगमः।
सामान्यलक्षणन्तु प्रमाणपदादेव समाख्यानिर्वचनसामर्थ्यसहितादवगम्यते 'प्रमीयते येन तत्प्रमाण'मिति करणार्थाभिधायिनः प्रमाणशब्दात् प्रमाकरणं प्रमाणमवगम्यते। तच्च प्रागेव दर्शितम् । 'प्रसिद्धसाधात् साध्यसाधनमुपमानमिति च मध्ये साध्यसाधनग्रहणमुपाददानः सूत्रकारः सर्वप्रमाणसाधारणं रूपमिदं परिभाषते यत्, साध्यसाधनस्य प्रमाकरणस्य प्रमाणत्वमिति । अशुद्ध- 20 प्रमितिविधायिनस्तु प्रामाण्यं प्रसज्यत इति स्मृतिसंशयविपर्ययजनकव्यवच्छेदाय प्रत्यक्षमूत्रादर्थोत्पन्नमित्यव्यभिचारीति व्यवसायात्मकमिति च पदत्रयमाकृष्यते। तद्धि प्रमाणचतुष्टयसाधारणम्। अर्थोत्पन्नपदेन फलविशेषणेन स्मृतिजनकम, अब्यभिचारिपदेन विपर्ययाधायि, व्यवसायात्मकपदेन संशयजनकं प्रमाणं
समाख्यानिर्वचनसामर्थ्यसहितादिति । समाख्यायाः समनुगताया आख्यायाः 25 प्रमाणमित्यस्या यन्निर्वचनं 'प्रमीयतेऽनेन' इति व्युत्पत्तिस्तस्य यत् सामर्थ्य शक्तिविशेषस्तत्सहितात् सापेक्षात् ।