________________
४०
5
10
15
20
न्यायमञ्जय
[ प्रथमम्
प्रमाणलक्षणविषये सांख्यमतनिरासः
सांख्यस्तु बुद्धिवृत्तिः प्रमाणमिति प्रतिपन्नः विषयाकारपरिणतेन्द्रियवृत्त्यनुपातिना बुद्धिवृत्तिरेव पुरुषमुपरञ्जयन्ती प्रमाणम् । तदुपरक्तो हि पुरुष: प्रतिनियतविषयद्रष्टा सम्पद्यते ।
तदेतदहृदयङ्गमम् । यो हि जानाति बुद्धयतेऽध्यवस्यति न तस्य तत्फलमर्थदर्शनमचेतनत्वान्महतः । यस्य चार्थदर्शनं न स जानाति न बुद्धयते नाध्यवस्यतीति भिन्नाधिकरणत्वं प्रमाणफलयोः । ज्ञानादिधर्मयोगः प्रमाणं पुंसि न विद्यते, तत्फलमर्थदर्शनं बुद्धौ नास्तीति ।
अथ स्वच्छता पुंसो बुद्धिवृत्त्यनुपातिता । बुद्धेर्वा चेतनाकारसंस्पर्श इव लक्ष्यते ॥ एवं सति स्ववाचैव मिथ्यात्वं कथितं भवेत् । चिद्धर्मो हि मृषा बुद्ध बुद्धिधर्म चितौ मृषा ॥ साकारज्ञानवादाच्च नातीवैष विशिष्यते । त्वत्पक्ष इत्यतोऽमुष्य तन्निषेधान्निषेधनम् ॥ निरसिष्यते च सकलः कपिलमुनिप्रक्रियाप्रपञ्चोऽयम् । तस्मान्न तन्मतेऽपि प्रमाणमवकल्पते किञ्चित् ॥ स्वमते प्रमाणलक्षणं तद्भेदाच
तीर्थान्तराभिहितरूपमतः प्रमाण नॅवापवादरहितं प्रतितर्कयामः । तेनामलप्रमितिसाधनमिन्द्रियादिसाकल्यमेव निरवद्यमुशन्ति मानम् ॥
विषयाकारपरिणतेन्द्रियेति । विषयाकारपरिणतानामिन्द्रियाणां या वृत्तिविषयनिर्भासः प्रतिभासः, स च निर्भासो निर्विकल्पकरूपः, तदनुपातिनी तन्निर्भासा या बुद्धिवृत्तिनिश्चयात्मिका सा सविकल्पकज्ञानरूपा ।
25
यो हि जानाति बुद्धयत इति । ज्ञानबोधाध्यवसायानां साङ्ख्यैर्बुद्धिवृत्तिरूपतयाभ्युपगमात् । तथाहि धर्मादिगुणाष्टकमध्येऽतीत विप्रकृष्टादिविषयोऽवगम आत्मविषयो वा बुद्धिगतो ज्ञानशब्देन निरुक्तः, अध्यवसायशब्देन चार्थनिश्चयः, बोधशब्देन चाध्यवसायजनको व्यापार इति । अचेनत्वान्महत इति । अचेतनत्वश्व विकारित्वादिसमनुगमात् । पुंसो बुद्धिवृत्त्यनुपातिता अवस्थाया धारित्वम् । साकारज्ञानवादाच्चेति । अत्रापि बुद्धिवृत्तेर्विषयाकारनिर्भासपरिणामलक्षणाया अभ्युपगमात् ।