________________
आह्निकम् ]
प्रमाणप्रकरणम्
भवतीति । नीलज्ञानं हि नीलं प्रति प्रमाणम्, नीलमिदमित्यनुकूलविकल्पोपजननात् । नीलाव्यतिरेकि क्षणिकत्वमपि तेन गृहीतमेव, तत्र तु प्रमाणं न भवतीत्यननुकूलविकल्पानुत्पादात् । स्थैर्य तु तदप्रमाणं विपरीतावसायकलुषितत्वादिति । यद्येवमस्मिन्प्रक्रमे सुतरामिदं प्रमाणलक्षणं दुःस्थम् । सन्तानाध्यवसायः, प्रापणं प्रति प्रमाणस्य व्यापार इति च वणितवानसि । अतश्च यथा मरीचिस्वलक्षण- 5 दर्शनमुदकाध्यवसायजननादप्रमाणम्, एवं स्वलक्षणदर्शनमपि तद्विपरीतसन्तानाध्यवसायजननादप्रमाणीभवेदिति । सन्ताने च काल्पनिके व्यवसिते दृश्याभिमुखः किमिति प्रवर्तते ? दृश्यविकल्प्यावर्थावेकीकृत्य प्रवर्तते । यदि वा अविवेकात प्रवृत्तस्य प्राप्तिः स्यात् प्रमाणमपि दूरतस्तस्याः । तस्मान्न प्रापकं प्रमाणम्,
___ अपि च प्राप्त्यप्राप्ती पुरुषेच्छामात्रहेतुके भवतः । अर्थप्रतीतिरेव प्रमाण- 10 कार्या अवधार्यते मानस्य लक्षणमतः कथयद्भिस्तद्विशेषणं वाच्यम् । न पुनः प्रापणशक्तिः प्रामाण्यं कथयितुं युक्तम् ।
अनुकूलतदितरविकल्पोपजननतदनुत्पादभेदादिति । अनुकूलविकल्पजननात् प्रमाणम्, तदितरस्य अननुकूलस्य विकल्पस्य जननादप्रमाणम् , अजननात् प्रमाणं न भवति । अप्रमाणमिति पर्युदासवृत्त्या प्रमाणविरुद्धं गृह्यते, धर्मप्रतिषेधेनाधर्मवत्। 15 प्रमाणं न भवतीति तु प्रसज्यप्रतिषेधसमाश्रयणेन प्रमाणरूपताया एव निषेधः । स्थैर्ये तु तदप्रमाणं विपरीतावसायकलुषितत्वादिति । क्षणिकताग्राहिप्रमाणेन क्षणिक इति योऽवसायो जन्यते तदपेक्षयेवमुक्तम्। दृश्यविकल्प्यावावेकीकृत्येति । एकीकरणं कैश्चिदभेदग्रहणं व्याख्यातम् । तद्ग्राहकमानाभावात् तद्रूषयित्वा परैर्भेदाग्रहणं दृश्यविकल्प्ययोरेकीकरणमुक्तम्; तदनेन सूचितम्-यदि वा अविवेकात् प्रवृत्तस्य । प्राप्तिरिति । दूरतस्तस्या इति । दर्शनं ततो व्यवसायस्तत इच्छा, अन्यानि च मध्ये ज्ञानानि, ततः प्राप्तिरिति प्राप्तेरतिदूरगत्वं प्रमाणस्य ।
अर्थप्रतीतिरेव प्रमाणकार्या अवधार्यते, यतस्ततः सैव तस्य प्रमाणस्य विशेषणं युक्तम् ‘अर्थप्रतीतिजनकं प्रमाणम्' इति । प्राप्तेस्तु प्रमाणकार्यत्वाभावात् कथं तद्विशेषणत्वम् 'प्रापकं प्रमाणम्' इत्युक्तमित्यर्थः। अतोऽर्थप्रतीतिजनक प्रमाणम्, नार्थ- 25 प्रापकमिति ।