________________
न्यायमञ्जा
[प्रथमम्
हेयोपादेययोरस्ति दुःखप्रीतिनिमित्तता। यत्नेन हानोपादाने भवतस्तत्र देहिनाम् ॥ यत्नसाध्यद्वयाभावादुभयस्यापि साधनात् । ताभ्यां विसदृशं वस्तु स्वसंविदितमस्ति नः ॥ उपादेये च विषये दृष्टे रागः प्रवर्तते।
इतरत्र तु विद्वेषस्तत्रोभावपि दुर्लभौ ॥ यत्तु अनुपादेयत्त्वाद्धेय एवेति। तदप्रयोजकम् । न ह्येवं भवति 'यदेतन्नपुंसकं स पुमान् अस्त्रीत्वात्' 'स्त्री वा नपुंसकमपुंस्त्वादिति । स्त्रीपुंसाभ्यामन्यदेव
नपुंसकं तथोपलभ्यमानत्वात् । एवमुपेक्षणीयोऽपि विषयो हेयोपादेयाभ्यामर्थान्तरं 10 तथोपलम्भादिति।
यदेतत्तृणपर्णादि चकास्ति पथि गच्छतः ।
न धीश्छनादिवत्तत्र काकोदुम्बरवन्न च ॥ तस्मादुपेक्षणीयज्ञानस्य तमप्रापयतोऽपि प्रामाण्यदर्शनान प्रापकत्वं तल्लक्षणम्। । ननु यावान् प्रामाण्यस्य व्यापारः प्रापणं प्रति, तावानुपेक्षणीयज्ञानस्य तमप्रापयतोऽपि प्रामाण्यविषपे तेन साधितः। उक्तं हि राज्ञामादेष्तृत्वमेव हर्तृत्वम्, प्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वमिति, मैवम् ।
एवं प्रदर्शकत्वं स्यात् केवलं तस्य लक्षणम् ।
तच्च प्रचलदर्षांशुजलज्ञानेऽपि दृश्यते ॥ ननु तत्र विपरीताध्यवसायजननादप्रामाण्यम्, दर्शनं हि मरीचिस्वलक्षणविषयमेव सलिलावसायन्तु जनयदप्रमाणीभवति । तथा ह्येकमेव दर्शनमनुकूलतदितरविकल्पोपजननतदनुत्पादभेदात् त्रिधा कथ्यते-प्रमाणम्,अप्रमाणम्, प्रमाणं न
यत्नसाध्यद्वयाभावादिति । यत्नेन हानं यत्नेन चोपादानं यत्नसाध्यद्वयम् । उभयस्य तुल्यकालहानोपादानस्य ।
न धीश्छत्रादिवदिति। छत्राख्यः शाकभेदः। काकोदुम्बरः कपिकच्छुः । .. अन्ये तु काकोदरवदिति पठन्तः काकोदरं सर्प व्याचक्षते ।
ननु यावान् प्रमाणस्य व्यापार इत्युपेक्षणीयमङ्गीकृत्याह।