________________
आह्निकम् ]
प्रेमणिप्रकरणम्
ta | प्रत्यक्ष तु बाढं प्रदर्शनमस्ति न तु प्रदर्शितं प्राप्यते, क्षणिकत्वेनातिकान्तत्वात् । अध्यवसितप्रापणमपि दुर्घटम्, अध्यवसायस्य भवन्मते वस्तुविषयत्वाभावादवस्तुनश्च प्राप्तुमशक्यत्वात् तदुक्तं भवद्भिः “यथाध्यवसायमतत्त्वाद् यथातत्त्वं चानध्यवसायादिति ।" मूलभूतवस्तुप्राप्तिस्तु काकतालीयम्, न तु तदन्यतरेणापि प्रमाणेन स्पृष्टम्, यद्गत्वा प्राप्यते । सन्तानप्राप्त्या तत्प्राप्तिः, इत्यपि न युक्तम् । सन्तानस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात् । एतच्च सविस्तरं क्षणभङ्गभङ्गे निरूपयिष्यते ।
5
३७
10
ननु काल्पनिकेsपि सन्ताने सति संवृत्या प्रमाणलक्षणमिदं निर्वक्ष्यति यथोक्तं सांव्यवहारिकस्यैतत्प्रमाणस्य लक्षणम्, वस्तुतस्त्वनाद्यविद्यावासना रोपितग्राह्यग्राहकादिभेदप्रपञ्चं ज्ञानमात्रमेवेदमिति । किं प्राप्यते ? को वा प्रापयतीति ? सोऽयं पलायनप्रकार इव प्रस्तूयते । केयं संवृत्तिर्नाम ? साऽपि सत्यसती वेति विकल्पयमाना नैव व्यवहारहेतुर्भवति । अविद्यावासनाकृतश्च न भेदव्यवहारः, कि तु पारमार्थिक एवेति साधयिष्यते । सांवृत्तसन्तानकल्पनायां वा जात्यवयविप्रभृतयोऽपि सांवृत्ताः किमिति नेष्यन्ते ? वृत्तिविकल्पादिबाधकोपहतत्वादिति चेत् । सन्तानेऽपि समानः पन्था इति कदाशालम्बनमेतत् । तस्मादसंभवि दर्शित- 15 प्रापकत्वमित्यलक्षणमेतत् । अव्यापकश्चेदं लक्षणम्, उपेक्षणीय विषयबोधस्याव्यभिचारादिविशेषणयोगेन लब्धप्रमाणभावस्याप्यनेनासंग्रहात् ।
ननु कोऽयमुपेक्षणीयो नाम विषय: ? स हयुपेक्षणीयत्वादेव नोपादीयते चेत् । स तर्हि हेय एवानुपादेयत्वादिति । नैतद्युक्तम्, उपेक्षणीयविषयस्य स्वसंवेद्यत्वेनाप्रत्याख्येयत्वात् ।
यथाध्यवसाय मतत्त्वादिति । यथा अध्यवसायः स्थितस्तथा पदार्थतत्त्वं न स्थितम्, अध्यवसायस्यावस्तुविषयत्वात् । यथा च सजातीयविजातीयव्यावृत्तं तत्त्वं स्थितम् तथा अध्यवसातुमशक्यमित्यर्थः ।
20
संवृत्या प्रमाणलक्षणमिति । सदृशक्षण सन्ततेरदृष्टान्तरालायाः समुत्पादात् तदेकत्वग्राहिणी बुद्धिस्तत्त्वसंवरणात् संवृतिः । सांव्यवहारिकस्य लोकव्यवहार - 25 प्रयोजनस्य, तेनैव तत्त्वव्यवस्थायाः कतु शक्यत्वात् ।