________________
न्यायमञ्जयां
[प्रथमम्
प्राप्त्या प्रापकत्वम् । तदिदमध्यवसितप्रापकत्वं प्रामाण्यम, अध्यवसितस्याऽवस्तुत्वेऽपि तन्मूलवस्तुप्राप्त्या निर्वहति । यथाऽध्यवसितप्रापकञ्च प्रमाणमिति मतम् । अतश्च पीतशङ्खादिग्राहिणां शङ्खादिमात्रप्राप्तौ सत्यामपि न प्रामाण्यम् । यथा
अवगतस्याप्राप्तेरवगतो हि पीतः शङ्कः, प्राप्यते च श्वेत इति । तस्माद्यथा5 वगतार्थप्रापकत्वमविसंवादकत्वं प्रामाण्यमिति ।
तदेतदनुपपन्नम, इदमेव तावद्धवान व्याचष्टां किं प्रदर्शितप्रापकं प्रमाणमुताध्यवसितप्रापकमिति ? तत्रानुमाने तावत्प्रदर्शनमेव नास्ति का कथा तत्प्राप
'कथमन्यः क्षणो गृह्यतेऽज्यश्च प्राप् 'ते' इत्यत्र सौगता एवं समर्थयन्ते । प्रत्यक्षण यः क्षणो गृह्यते सोऽवश्यमन्यक्षणजननस्वभावो गृह्यते, यथा भवद्भिरुक्तम् ।
'रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते' इति ।
तदेवं वर्तमानक्षणग्रहणकालेऽनागताः क्षणा अगृहीता अपि तेन क्षणेनाक्षिप्ता इति नास्त्यगृहीतप्राप्तिः।
___ अपरे त्वाहुः । सन्तानगतस्य क्षणविवेकस्याग्दिर्शनेन कर्तुमशक्यत्वान्नीलं यदा सन्तानान्तरल्यावृत्तेन रूपेण सामान्येन गृह्यते, तदा सर्व एव क्षणा गृहीता भवन्ति, 15 सर्वेषां सन्तानान्तरव्यावृत्तत्वेनाविशेषात् । अनुमानात्त विशेषः; अनुमानं विजातीय
व्यावृत्तिमात्रविषयम्, इदन्तु सजातीयविजातीयव्यावृत्तविषयमित्यास्तां तावदिदम् । अनुमानस्य त्वारोपितार्थविषयत्वेऽपीति । अनुमानग्राह्यस्य सामान्याकारस्य वक्ष्यमाणनीत्या प्रत्यक्षग्राह्यक्षणवद् बहिरसत्त्वादारोपितत्वं वह्निप्रतिबद्धधूमप्रदर्शनद्वारेणोत्पत्तेमूलभूतवस्तुक्षणपारम्पर्यप्रभवत्वम्, मणिप्रभामणिबुद्धिवत् । तदुक्तम्--
मणिप्रदीपप्रभयोर्मणिबुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेपि विशेषोऽर्थक्रियां प्रति ॥ लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ॥ इति ।
अध्यसितस्यावस्तुत्वेऽपीति । प्रत्यक्षेणाध्यवसितो यः सन्तानः सोऽवस्तु । यद्यपि तथापि, तदध्यवसायजनकं दर्शनं वस्तूभूतस्वलक्षणप्रभवम्, अनुमेयाकाराध्यव__ सायश्च वस्त्वात्मकमूलभूताग्निप्रतिबद्धधूमक्षणदर्शनप्रभव इति ।
अनुमाने तावत् प्रदर्शनमेव नास्ति, वस्तुतोऽवस्तविषयत्वात् तस्येति शेषः ।