________________
आह्निकम् ]
प्रमाणप्रकरणम् शब्दस्यानुपलब्धेऽर्थे प्रामाण्यञ्चाह जैमिनिः ।
सर्वप्रमाणविषयं भवद्भिर्वर्ण्यते कथम् ॥ प्रामाण्यस्वरूपे मतान्तरं तन्निरासश्च
अपरे पुनरविसंवादकत्वं प्रमाणसामान्यलक्षणमाचक्षते । तदुक्तम् प्रमाणमविसंवादकत्वञ्च प्रापकत्वमुच्यते। ज्ञानस्य च प्रापकत्वं सुखदुःखसाधनसमर्थ- 5 पदार्थप्राप्तिपरिहारभूतायाः प्रवृत्तेनिमित्तं प्रदर्शकत्वमेव । ज्ञानप्रदर्शिते हि विषये प्रवृत्तौ सत्यां प्राप्तिर्भवतीति प्राप्ति प्रति प्रमाणस्य प्रदर्शकत्वमेव व्यापारः । प्रदर्शयता हि तेन सोऽर्थः प्रापितो भवति यथा हर्तव्यं प्रति राज्ञामाज्ञादानमेव हर्तृत्वम् । तदुक्तम् प्रापणशक्तिः प्रामाण्यमिति । लोकेऽपि च प्रदर्शितं वस्तु प्रापयतः प्रमाणत्वव्यवहारः । तच्च प्रापकत्वं प्रत्यक्षानुमानयोरुभयोरप्यस्तीति प्रमाण- 10 सामान्यलक्षणम् । तत्र प्रत्यक्षस्य वस्तुस्वलक्षणविषयत्वात् तस्य च क्षणिकत्वेन प्राप्त्यसम्भवेऽपि तत्सन्तानप्राप्तेस्सन्तानाध्यवसायजननमेव प्रापकत्वम्। अनुमानस्य त्वारोपितार्थविषयत्वेऽपि मूलभूतवस्तुक्षणपारम्पर्यप्रभवत्वान्मणिप्रभामणिबुद्धिवत्त
प्रामाण्यञ्चाह जैमिनिः। 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं बादरायणस्यानपेक्षत्वाद्' इति । 15
प्रापणशक्तिः प्रामाण्यमिति । यद्यपि तस्य ज्ञानस्य साक्षात् प्रापकत्वं नास्ति, . प्राप्तेरिच्छादिनिबन्धनत्वात्, तथापि प्राङ्नीत्या प्रदर्शकत्वमेव प्रापणशक्तिः । प्राप्त सामर्थ्य प्रापकत्वम् । तथासति च तदेव प्रामाण्यमित्यर्थः। सन्तानप्राप्तेः सन्तानाध्यवसायजननमेवेति । यो हि प्रापयितुं शक्यः स प्रवृत्तिविषयो भवति, यश्च प्रवृत्तिविषयः सोऽवश्यम् 'इदमिदानीमिह' इत्यवसेयः । तच्चाध्यवसेयत्वं प्रा यस्य क्षगस्य तदानी- 20 मसम्भवात् तत्रासम्भवत्प्राप्यक्षणावयवभूतक्षणपरम्परात्मके सन्तान एव युज्यत इति प्राप्यत्वाकारः सन्तानाध्यवसायोऽवश्यमेषितव्यः । । ।
नन्वध्यवसायो विकल्पस्तस्य चारोपितार्थग्राहित्वात् कथं बाह्यविषयत्वम् ? उच्यते । प्रत्यक्षपृष्ठभावी हि विकल्पोऽविद्यानुभववासनावशादतव्यावृत्त्यात्मनारोपितमाकारं गृह्णन्नुत्पद्यते । यदेव च तस्यारोपिताकारग्रहणं स एव बाह्याध्यवसायः। 25 बाह्यस्यातव्यावृतेन रूपेणातद्व्यावृत्तिरूपविकल्पाकारसादृश्यात् । तस्मिन् गृहीते बाह्योऽध्यवसित इत्यभिमानात् प्रतिबिम्बे गृहीते मुखमध्यवसितमितिवद् । न पुनर्विकल्पः स्वमाकारं गृहीत्वा ततो बाह्यमध्यवस्यति, क्षणिकत्वहानेः ।