________________
३४
5
न्यायमञ्जयां
[प्रथमम् यदि चानुपलब्धार्थग्राहि मानमुपेयते ॥ . तदयं प्रत्यभिज्ञायाः स्पष्ट एव जलाञ्जलिः। यश्चेदानीन्तनास्तित्वप्रमेयाधिक्यलिप्सया। तस्याः प्रमाणतामाह सोऽपि वञ्चयतीव नः ॥ आ विनाशकसद्भावादस्तित्वं पूर्वया धिया। स्पष्टमेव तथा चाह चिरस्थायीति गृह्यते ॥ तस्मादनुपलब्धार्थग्राहित्वे त्यज्यतां ग्रहः ।
नन्वेतस्मिन्परित्यक्ते प्रामाण्यं स्यात् स्मृतेरपि ॥ स्मृतेरप्रामाण्ये हेतुविचारः 10
न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् ।
अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम् ॥ ननु कथमनर्थजा स्मृतिः ? तदारुढस्य वस्तुनः तदानीमसत्त्वात् । कथं तहिं भूतवृष्टयनुमानं नानर्थजम् ? तत्र धर्मिणोऽनुमेयत्त्वात् तस्य च ज्ञानजनकस्य तत्र
भावात् । नद्याख्य एव धर्मी वृष्टिमदुपरितनदेशसंसर्गलक्षणेन धर्मेण तद्वाननु15 मीयते विशिष्टसलिलपूरयोगित्वात्। स चानुमानग्राह्यो धर्मी विद्यत एवेति
नानर्थजमनुमानम् । कथं तहि प्रातिभमनागतार्थग्राहि 'श्वो मे भ्राताऽऽगन्ते'ति प्रत्यक्षमर्थजमिष्यते भवद्भिः ? तत्र देशान्तरे विद्यमानस्य भ्रातुः श्वो भाव्यागमनविशेषः तस्यैव तथैव ग्रहणम्, तेन च रूपेण गृह्यमाणस्य सतस्तस्य
ज्ञानजनकत्वमित्यर्थजमेव प्रातिभम् । स्मरणं तु निर्दग्धपित्रादिविषयमनपेक्षितार्थ20 मेव जायमानं दृष्टमित्यन्यत्र देशान्तरस्थितार्थस्मरणे तदर्थसत्त्वमकारणमेव ।
तस्मादनर्थजत्वेन स्मृतिप्रामाण्यवारणात् । अगृहीतार्थगन्तृत्वं न प्रमाणविशेषणम् ॥
चिरस्थायीति गृह्यत इति। अनिमेषदृष्टेरन्तरान्तरा त्रुट्यत्स्वभावपदार्थानवधारणात् चिरस्थायित्वग्रहः । तथा चाह
'रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते' इति ।
25